________________
द्वितीयमहाव्रतस्वरूपम् - श्लो० ११२ ॥ ]
[ ६६७
तिसृभ्यो विलक्षणा चासत्याऽमृषेति । एतच्च भाषाचतुष्टयं व्यवहारनयादेशादेव विभज्यते, निश्चयतस्तूपयोगप्रामाण्यात् सत्यासत्यभेदेन भाषाद्वयमेव व्यवतिष्ठति । यदुक्तं भाषारहस्ये –
44
'भासा चउव्विह त्ति अ, ववहारणया सुअंमि पन्नत्तं ।
सच्चामुस त्ति भासा, दुविहा चिअ हंदि णिच्छयओ" ॥१॥ [ भा. र. / तुला गा. १७ ] इति ।
युक्तं चैतत्, आराधकत्वविराधकत्वाभ्यां भेदद्वयस्यैव व्यवस्थितेः, देशाराधकत्वविराधकत्वयोः शुद्धनयेऽनभ्युपगमात्, एकदा योगद्वयस्योपयोगद्वयस्य चानिष्टेः, अन्यथा शबलकर्मबन्धप्रसङ्गादित्याद्यधिकं विशेषावश्यकादौ । इदमेवाभिप्रेत्योक्तं भगवता श्यामाचार्येण -
"एआई भंते ! चत्तारि भासज्जायाइं भासमाणे किं आराहए विराहए ?, गोअमा ! आउत्तं भासमाणे आराहए, तेण परं असंजयअविरयअप्पडिहयअपच्चक्खायाम् सच्चं वा भासं भासउ मोसं वा सच्चामोसं वा असच्चामोसं वा विराहए णो आराहए " [ प्रज्ञापना पद ११/८६२ ] इति कृतं प्रसङ्गेन ।
अथैतासामुत्तरभेदविवक्षायामाद्याया भेदा दश । ते चामी -
-
"
सच्चे अ ११ ॥१॥
“जणवय १ संमय २ ठवणा ३, नामे ४ रूवे ५ पडुच्च ६ सच्चे अ । ववहार ७ भाव ८ जोगा ९, दसमे ओवम्म १० [ दश.नि. २७३, प्रव. ८९१ ] जेनपदेषु –देशेषु यदर्थवाचकतया रूढा सा देशान्तरेऽपि तदर्थावाचकतया त्यज्यमानापि सत्या, यथा कौङ्कणादिषु पयः पेच्चमित्यादि, सत्यता चास्या व्यवहारप्रवृत्तिहेतुत्वादित्यन्येष्वपि भावना कार्या १ । तथा सकललोकसामान्येन सत्यतया प्रसिद्धा सम्मतसत्या यथा कुमुदकुवलयोत्पलतामरसानां समानेऽपि पङ्कसम्भवे गोपालादीनां संमतमरविन्दमेव पङ्कजं न शेषमित्यरविन्दे सर्वसंमततया पङ्कजशब्दः सत्यः, कुवलयादावसत्योऽसंमतत्त्वादिति २। तथा स्थापनासत्या यथा एकपुरतो बिन्दुद्वये शतम्, तत्त्रये च सहस्रम् लेप्यादिषु अर्हद्विकल्पो वा ३। यथा नाममात्रेण सत्या नामसत्या, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इत्यादि ४। एवं रूपतो रूपापेक्षया सत्या, यथा दम्भतो गृहीतयतिरूपो यतिरयमिति ५ । तथा प्रतीत्याश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसत्या, यथाऽनामिकायां कनिष्ठामाश्रित्य दीर्घत्वं
१. पन्नाणं-L.P.C. ॥ २. तुला - प्रवचनसारोद्धारवृत्तिः ॥ ३. प्रयुञ्जमानापि - इति प्रवचनसारोद्धारवृत्तौ भा० २। प० १३१ ॥ ४. याः - इति प्रवचनसारोद्धारवृत्तौ भा० २ प० १३२ ॥
D:\new/d-3.pm5\ 3rd proof