SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ [ धर्मसंग्रहः - तृतीयोऽधिकारः सूत्रक्रमप्रामाण्याच्चावसेयम्, द्वितीयो हेतुश्च द्वितीयव्रतादिष्वपि भाव्यः ॥ १११॥ इत्युक्तं प्रथमं व्रतम्, अथ द्वितीयव्रतलक्षणमाहसर्वथा सर्वतोऽलीकादप्रियाच्चाहितादपि । वचनाद्विनिवृत्तिर्या, तत् सत्यव्रतमुच्यते ॥ ११२ ॥ ‘सर्वतः’क्रोधादिसकलप्रकारजनितात् 'अलीकाद्' असत्यात् 'च' पुनः 'अप्रियाद्' अप्रीतिकारिणः तथा ‘अहितादपि' आयतौ अहितकारिणः, न केवलम् अलीकादेवेत्यपिशब्दार्थः, एवंविधात् ‘वचनात्' 'या' 'सर्वथा' त्रिविधत्रिविधेन 'निवृत्तिः ' विरमणं तत् सत्यं ‘सत्यव्रतम्’, उच्यते जिनैरिति शेषः । ननु अलीकाद्वचनान्निवृत्ति रित्येवास्तु, सत्यव्रताधिकारात्, किमप्रियाऽहितयोर्ग्रहणं ? तयोरनधिकारात् इति चेत्, मैवम्, व्यवहारतः सत्यस्यापि अप्रियस्याहितस्य च परमार्थतोऽसत्यत्वात्, यथा चौरं प्रति चौरस्त्वं कुष्ठनं प्रति कुष्ठ त्वमिति, तदप्रियत्वान्न तथ्यं । तथा च सूत्रम् - - “तहेव काणं काण त्ति, पंडगं पेंडग त्ति अ । ६६६ ] वाहिअं वा वि रोगि त्ति, तेणं चोरि त्ति नो वए" ॥१॥ [ दशवै./७।१२ ] अत एव षड् भाषा अप्रशस्ता उक्ताः । तथाहि "हीलिअखिसि अफरुसा, अलिआ तह गारहत्थिआ भासा । छट्ठी पुण उवसंताहिगरणउल्लाससंजणणी” ॥१॥ [ प्र.सा./१३२१ ] इति । तथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो 'मया मृगा दृष्टा' इति तज्जन्तुघातहेतुत्वान्न तथ्यम् । तथा चोक्तं योगशास्त्रे – " 'न सत्यमपि भाषेत, परपीडाकरं वचः । लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः " ॥१॥[ यो.शा./२।६१ ]इति । अत्र च व्रते चतस्रो भाषा द्विचत्वारिंशद्भेदभिन्ः सम्यगवबोध्याः । ताश्चेमाः - 44 'पढमा भासा सच्चा १, बीआ उ मुसा २ तइय वि अ तासिं । सच्चामुसा ३ असच्चामुसा ४ पुणो तच्चउत्थी उ" ॥१॥ [ प्रज्ञा. सू. ११।८६२, प्र. सा. ८९० ] इति । भाष्यत इति भाषा, सा चतुर्विधा, तत्र सद्द्भ्यः उत्तमेभ्यो मूलोत्तरगुणेभ्यो विद्यमानेभ्यो वा जीवादिभावेभ्यो हिता सत्या वस्तुप्रतिष्ठासायां संवादि वचनमित्यर्थः, तद्विपरीता मृषा वस्तुप्रतिष्ठासायां विसंवादि वचनमित्यर्थः उभयस्वभावा सत्यामृषा, १. काणे ॥ २. पंडगे ॥ ३. चोरे। दशवै० मु० ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy