SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ महाव्रतस्वरूपम्, प्रथममहाव्रतस्वरूपम् - श्लो० ११० ॥ ] [ ६६५ स्वाध्यायप्रस्थाने ६ संस्तारके चैव ७ सप्तैता मण्डल्यो भवन्ति । एतासु चैकैकेनाचाम्लेन प्रवेष्टुं कल्पते नान्यथेति । तत्र च - मुहपोतिं पेहिअ वंदणदुगं दाडं सुत्तमंडली संदिसावउं ? खमा० सुत्तमंडली ठासिउ, खमा० इच्छं तस्स मिच्छा मि दुक्कडं १ । सेसासु तिविहेणं' इति ॥१०९॥ इति प्रतिपादितः सप्रपञ्च उपस्थापनाविधिः, उपस्थापनं च व्रतारोपणमिति व्रतान्येवाहअहिंसा सत्यमस्तेयं, ब्रह्माऽऽकिञ्चन्यमेव च । महाव्रतानि षष्ठं च, व्रतं रात्रावभोजनम् ॥ ११०॥ अहिंसा सत्यम् अस्तेयं ब्रह्म आकिञ्चन्यम् इति पञ्च' एवम्' इत्यवधारणे पञ्चैवेत्यर्थः, महान्ति इतरव्रतापेक्षया बृहन्ति व्रतानि - नियमरूपाणि महाव्रतानि उच्यन्ते - प्रतिपाद्यन्ते इति क्रियान्वयः, महत्त्वं चैषां सर्वजीवादिविषयत्वेन महाविषयत्वाद् । उक्तं च - "पढमंमि सव्वजीवा, बीए चरिमे अ सव्वदव्वाइं । सेसा महव्वया खलु, तदेक्कदेसेण दव्वाणं" ॥१॥ [ आव.नि./ ७९१ ] इति । 'तदेक्कदेसेणं'ति तेषां द्रव्याणामेकदेशेनेत्यर्थः । षष्ठं च व्रतं न तु महाव्रतमित्यर्थः, ‘रात्रौ अभोजनं' रात्रिभोजनविरमणमुच्यते ॥ ११० ॥ इति प्रतिपादितानि नामतो व्रतानि, साम्प्रतमेतेषां लक्षणान्यभिधित्सुः प्रथममहिंसाव्रतलक्षणमाह प्रमादयोगाद् यत् सर्वजीवासुव्यपरोपणम् । सर्वथा यावज्जीवं च प्रोचे तत् प्रथमं व्रतम् ॥१११॥ ‘प्रमादः’ अज्ञान-संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-योगदुष्प्रणिधान - धर्मानादरभेदादष्टविधः, तस्माद्धेतोः सर्वेषां सूक्ष्मादिभेदभिन्नानां जीवानां प्राणीनां येऽसवः प्राणाः पञ्चेन्द्रियबलत्रयोच्छ्वासायुर्लक्षणा दश तेषां यथासम्भवं 'व्यपरोपणं' विनाशनं हिंसा तस्मात् ‘निवृत्ति:’ विरतिः, सा देशतोऽपि स्यादित्यत आह-' सर्वथा' सर्वप्रकारेण त्रिविधं त्रिविधेन भङ्गेन, तच्चेत्वरमपि स्यादित्यत आह-' यावज्जीवं ' प्राणधारणं यावत्, तत् किम् ? इत्याह— ‘प्रथमं व्रतम्' अहिंसाव्रतमुचे जिनैरिति शेषः । प्रथमत्वं चास्य शेषाधारत्वात् १. L.P. सं० । प्रमादयोगतोऽशेषजीवासुव्यपरोपणात् । निवृत्तिः सर्वथा यावज्जीवं सा प्रथमं व्रतम्-मु० C.P. मूल ।। २. L.P. सं० तद्योगतः तत्सम्बन्धात् अशेषाः समस्ताः सूक्ष्मा बादराश्च त्रसाः स्थावराश्च वा जीवाः प्राणिनस्तेषां असव० मु० C. P. मूल । ३. L. P. सं० । सा किम् ? इत्याह'प्रथमं व्रतं' अहिंसाव्रतमुच्यते इति क्रियान्वय० - मु० C. P. मूल ॥ D:\new/d-3.pm5\ 3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy