________________
उपस्थापनाविधिः-श्लो० १०९॥]
[६६३ "कहिऊण य कायवए, इअ तेसुं णवरमभिगएसुं च ।
गीएण परिच्छेज्जा, सम्मं एएसु ठाणेसुं" ॥१॥[पञ्च./६६३ ] इति । परीक्षास्थानानि च तद्गाथाभिरेव प्रदर्श्यते - "उच्चाराइ अथंडिल, वोसिर ठाणाइ वा वि पुढवीए।
णइमाइदगसमीवे, सागणि णिक्खित्ततेउंमी" ॥१॥[पञ्च./६६४] उच्चारादि अस्थण्डिले व्युत्सृजति तत्परीक्षार्थं गीतार्थः, स्थानादिचापि पृथिव्यां करोति, स्थानं कायोत्सर्गः, आदिशब्दान्निषदनादिपरिग्रहः, नद्यादावुदकसमीपे उच्चाराद्यं च व्युत्सृजति, तथा साग्नौ निक्षिप्ततेजसि स्थण्डिलादौ उच्चाराद्येव करोतीति १। ततः -
"विअणभिधारण वाए, हरिए जह पुढविए तसेसुं वा ।
एमेव गोअरगए, होइ परिच्छा उ काएहिं" ॥१॥[ पञ्च./६६५ ] व्यजनाभिधारणं वाते करोति, हरिते यथा पृथिव्यामुच्चाराद्येव व्युत्सृजति, त्रसेषु च द्वीन्द्रियादिषु , एवमेव गोचरगतेषु शिष्येषु भवति परीक्षा कार्या रज:संसृष्टग्रहणादिनेति २।
"जइ परिहरई सम्मं, चोएड व पाडिअंतओ जोग्गो।
होइ उवट्ठावणाए, तीए अ विही इमो होइ''॥१॥[पञ्च./६६६] यदि सम्यक् परिहरति स्वतश्चोदयति संघाटिकं द्वितीयम् 'अयुक्तमेतद्' इत्येवं ततो योग्यो भवति उपस्थापनायाः, इतरथा भजनेति ॥१०८।। अथ प्रागुक्तं 'सा च कार्या यथाविधि'इत्यतस्तद्विधिमाह -
देवगुर्वोर्वन्दनं च, व्रतोच्चारः प्रदक्षिणाः ।
दिग्बन्धस्तप आख्यानं, मण्डलीवेशनं विधिः ॥१०९॥ 'देवगुर्वोर्वन्दनं' चैत्यवन्दनं द्वादशावर्त्तवन्दनं च 'व्रतोच्चारः' अहिंसादिरात्रिभक्तविरतिपर्यन्तषव्रतानामुच्चारणं 'प्रदक्षिणाः' तिस्रः, दिगबन्धः' आचार्यादिभेदाद् द्विधा त्रिधा वा, ‘तपः' आचाम्लादि, 'आख्यानं' पञ्चवधूनामाख्यानिकाकथनम् , 'मण्डलीवेशनं' मण्डलीसप्तके प्रवेशनं चकारो गम्य इति विधिः प्रक्रमादुपस्थापनायां भवतीति संक्षेपार्थः । विस्तरार्थस्तु सामाचारीतोऽवसेयस्तत्पाठश्चायम् -
१. P.C. पञ्चवस्तुके । उ-मु० ॥ २. वा पृ” इति पञ्चवस्तुकवृत्तौ ॥ ३. उच्चाराद्येव व्यु इतिपञ्चवस्तुकवृत्तो ॥ ४. कायैः-इति पञ्चवस्तुकवृत्तौ ॥ ५. घडिअं तहा(या)-इति पञ्चवस्तुके । ६. घाटिक-इति पञ्चवस्तुकवृत्तौ ।।
D:\new/d-3.pm5\3rd proof