________________
६६२]
[धर्मसंग्रहः-तृतीयोऽधिकारः जलस्यापि भूमिखाते स्वाभाविकसम्भव इति । अथवा सात्मकमन्तरिक्षोदकम् , स्वभावतो व्योमसम्भूतस्य पातात् , मत्स्यवत् , यथा मत्स्यस्य स्वभावेन व्योम्निसम्भूतस्य पातो दृश्यते तथाऽन्तरिक्षजलस्यापि, इति च सिद्धं जीवत्वं जलस्येति भावः । आह च - "भूमिक्खयसाभाविअसंभवओ ददुरो व्व जलमुत्तं । अहवा मच्छो व्व सहाववोमसंभूअपायाओ" ॥१॥[ पञ्च./६४६ ] इति ।
अथवा आपः सचेतनाः, स्वाभाविकद्रवत्ववत्त्वात् कललवत् इति । अग्नेर्जीवत्वसाधनमित्थम् –अग्निर्जीवः, आहारदर्शनाद् वृद्धिविकारोपलम्भाद्वा, पुरुषवदितिप्रयोगः, यथा पुरुष आहारं कुर्वन् वृद्धिं च प्राप्नुवन् दृश्यते तथाऽग्निरपीति सिद्धमग्नेर्जीवत्वमिति । अथ वायुजीवत्वसाधनं यथा –वायुर्जीवः, अपरप्रेरिततिर्यगनियमितदिग्गमनात् , अश्ववत् , इति प्रयोगः, यथाऽश्वोऽपरप्रेरणया तिर्यग्गतिस्तथा वायुरपीति जीवत्वं चास्य । आह च - "अपरप्पेरिअतिरिआनिअमिअदिग्गमणओऽनिलो गो व्व। अनलो आहाराओ, विद्धिविग्गारोवलंभाओ" ॥१॥ [तुला-पञ्च./६४७] इति ।
पूर्वार्द्ध चापरप्रेरितग्रहणेन लेष्ट्वादिना व्यभिचार: परिहृतः, एवं तिर्यग्ग्रहणेनोर्ध्वगतिना धूमेनानियमितग्रहणेन च नियतगतिना परमाणुनेति । वनस्पतीनामपि जीवत्वम् , यथा - तरवः सचेतनाः, जन्मजराजीवनमरणरोहणाहारदौ«दामयरोगचिकित्सादिभ्यः, स्त्रीवत् , यथा स्त्रीणां जन्मादयो धर्मा उपलभ्यन्ते तथा तरूणामपीति जीवत्वं वनस्पतीनां सिद्धमिति भावः । आह च - "जम्मजराजीवणमरणारोहणाहारदोहलामयओ। रोगतिगिच्छाईहि अ, णारि व्व सचेअणा तरवो" ॥१॥[पञ्च./६४८] इति ।
द्वीन्द्रियादयस्तु कृमिपिपीलिकाभ्रमरादयः प्रसिद्धा एवेति कायस्वरूपाण्यभिधाय व्रतानि प्राणातिपातादीनि रात्रिभोजनविरमणपर्यन्तानि साधूनां मूलगुणरूपाणि कथनीयानि, तानि चोपस्थापनाविधिव्याख्यानानन्तरं मूल एव वक्ष्यमाणानीति ततोऽवसेयानि, ततश्च तदतिचारा: कथनीयाः, तेऽपि तत्रैव वक्ष्यमाणाः, ततश्चैवं कायव्रतानि कथयित्वा अभिगततदर्थस्य शिष्यस्य गुरुणा शास्त्रोक्तविधिना परीक्षा कार्या । यतः पञ्चवस्तुके -
१."आहाराओ अणलो विद्धिविगारोवलंभओ जीवो।अपरप्पेरिअतिरिआणिअमिअदिग्गमणओ अनिलो" इति पञ्चवस्तुके गा०६४७।। २. मरण इति पञ्चवस्तुके।
D:\new/d-3.pm53rd proof