________________
उपस्थापनाऽयोग्यस्य स्वरूपम् -श्लो० १०८॥]
[६६१ अपावमाणमि इत्थ इमं -“दो पुत्त" कण्ठ्यं पूर्वार्द्ध-आयरिएणपन्नवणं गाहिओ ताहे खुड्डो उवट्ठाविज्जइ, एस तव पुत्तो परममेहावी पत्तो, एते दो वि थेरा पुत्ता रायणिआ भविस्संति, एस वि ता होउ एतेसि रायणिओ त्ति ॥२॥ राया अमच्चे अ समगं पव्वइआ, जहा पिआ पुत्ता तहा असेसं भाणिअव्वं, संजइमझे वि दुण्हं मायाधिईणं महादेविअमच्चीण य एवं सव्वं भाणियव्वं ॥३॥ दो ईसरा दो सिट्ठी दो अमच्चा दो वणिआ दो गुट्ठीओ दो महाकुलेहितो पव्वइआ, समपत्ता समरायणिआ कायव्वा" [] ॥४॥ इति प्राप्ताप्राप्तविधिः । ____ कथनविधिस्त्वेवम् –कायव्रतादीनि श्रोतृबुद्ध्यनुसारेण हेतूदाहरणगर्भितानुमानवाक्येन कथनीयानि, अकथिते तु कायव्रतादौ उपस्थापनाकरणे दोषस्य प्राग्निरुपितत्वात् , तानि च वाक्यानीत्थम् –एकेन्द्रियाः काया इति प्रतिज्ञा, शेषेन्द्रियाणामभावेऽपि स्पर्शनेन्द्रियस्य सत्त्वादितिहेतुः, यो यो रसनेन्द्रियाद्यभावेऽपि स्पर्शनेन्द्रियसत्तावान् स स कायः, यथोपहतघ्राणरसनान्धबघिर इति दृष्टान्तः, तथा चैते एकेन्द्रिया इत्युपनयस्तस्मात् तथेति काय इत्यर्थः, इति निगमनम् , इति पञ्चावयवोपेतानुमानवाक्येनैकेन्द्रियाणां जीवत्वं प्रतिपादनीयम् , कर्मपरिणत्या श्रोत्रादीनामावरणेन तेषामभावेऽपि यथा बधिरादीनां नाजीवत्वं न तथैकेन्द्रियाणमपीति भावार्थः, एवं द्वीन्द्रियादयोऽपि चतुरिन्द्रियान्ताः कायत्वेन साध्याः, न च बधिरादीनां निर्वृत्त्युपकरणरूपद्रव्येन्द्रियदर्श त् दृष्टान्तासिद्धि: चतुरिन्द्रियाणां दृष्टान्तपदे सम्भवात् , तेषां कर्मपरिणत्या श्रोत्रेन्द्रियं नास्त्येव, जीवत्वं च चतुरिन्द्रियादीनां द्वीन्द्रियपर्यन्तानां सर्ववादिसिद्धमेव, एकेन्द्रियेष्वेव विप्रतिपत्तिरतस्तेषु युक्त्यन्तरेणापि जीवत्वं दर्शनीयम् , तथाहि-पृथिवीविद्रुमलवणोपलादयः पार्थिवाः सचित्ताः, छिन्नसदृशाङ्करोद्गमदर्शनात् , मांसाङ्करवत् , प्रयोगस्तु स्वयमभ्यूह्यः, जीववत्पञ्चेन्द्रियशरीराच्छिद्यमानं मांसं यथा पुनः सम्पद्यते तथा पृथिवीविद्रुमादयोऽपि छिद्यमानाः पुनर्भवन्तीति सिद्धिमापन्नं तेषां जीवत्वमिति तात्पर्यम् । आह च -
"मंसंकुरो व्व समाणजाइरूवंकुरोवलंभाओ।
तरुगणविदुमलवणोवलादओ सासयावत्था" ॥१॥[पञ्च./६४५ ] इति । इह समानजातिग्रहणं श्रृङ्गाङ्करव्यवच्छेदार्थम् , स हि न समानजातीयो भवतीति १॥ जलस्य जीवत्वम् , यथा – भौमं जलं सचित्तम् , भूमिखाते स्वाभाविकसम्भवात् , दर्दुरवत् इति प्रयोगः । यथा दर्दुरस्य भूमिखनने स्वाभाविकः सम्भवो जायते तथा
१. पुत्तो-इति पञ्चवस्तुके ॥ २. पिया-इति पञ्चवस्तुके । ३. हुंति सचित्ता-इति पञ्चवस्तुके ।
D:\new/d-3.pm53rd proof