________________
६६०]
[धर्मसंग्रहः-तृतीयोऽधिकार: चारित्राभावे शास्त्रनीत्या पञ्चाहादित्यागेन द्वितीयचारित्रोपस्थापनाकरणं गगनकीलवदयुक्तं, इतिचेत् सत्यम् , परं निश्चयनयमाश्रित्य सामायिके सति अप्रज्ञापनीयो न भवति, व्यवहारतस्तु अशुद्ध सामायिकेऽप्रज्ञापनीयो भवत्येव, तद्भावेऽप्यतिचारहेतुकसंज्वलनोदयाप्रतिषेधात् , सत्सु चातिचारेषु सामायिकाशुद्धिसम्भवात् , अथवा सामायिकं प्रतिपात्यपि भवति, सत्यपि द्रव्यलिङ्गे सर्वविरतिसामायिकस्यैकभवे ग्रहणमोक्षलक्षणाकर्षशतपृथक्त्वसंभवस्य सूत्रे प्रतिपादनात् । तथा च तद्वचः -
"तिण्हं सहसपुहुत्तं, सयप्पुहुत्तं च होइ विरईए।
एगभवे आगरिसा, एवइआ हुंति णायव्वा" ॥१॥[आव.नि./८५७] 'तिण्हं'ति त्रयाणां सम्यक्त्वश्रुतदेशविरतिसामायिकानां 'सहस्रपृथक्त्वं' पृथक्त्वं द्विप्रभृतिः आ नवभ्यः 'विरतेः' सर्वविरतिसामायिकस्येति 'शतपृथक्त्वं' परतस्तु अप्रतिपातो लाभो वेति । एतेषां चाकर्षाणामन्तरे सामायिकाभावे भवत्येवाप्रज्ञापनीय इति नोक्तदोष इति । निरतिशयगुरुणा सामायिकशून्यस्यापि तस्य पुनः सामायिकसम्भवात् न त्यागः कार्य इति तत्त्वम् । एवं वस्तुस्वभावो राजभृत्यादीनां प्रव्रजितानां यत्र महदन्तरं तत्रापि लोकविरोधात् ज्ञेयः । यतः -
"दो थेर खुड्डथेरे खुड्डग दो वऽत्थ मग्गणा होइ । रन्नो अमच्च माई,संजडधड महादेवीअमच्ची ॥२॥पञ्च./६३३] दो पुत्तपिआ पत्ता, एगस्स उ पुत्तओ न उण थेरो । गहिओ सयं व विअरइ, रायणिओ होतु एस विआ ॥२॥[ पञ्च./६३४] राया रायाणो वा, दोण्णि वि समपत्त दासदासेसुं (मायदुहियासु)। ईसरसेट्ठि अमच्चे णिगमघडाकुल दुवे खुड्डे ॥३॥[पञ्च./६३५] समयं तु अणेगेसुं , पत्तेसुं अणभिओगमावलिआ।
एगदुहविट्ठिएसं, समराइणिआ जहासन्ने" ॥४॥ [पञ्च./६३६ ] व्याख्या -"दो थेरा सपुत्ता पव्वाविआ, दो वि थेरा पत्ता न ताव खुड्डुगा, थेरा उवठावेअव्वा, दो खुड्डा पत्ता न थेरा, इत्थ वि पन्नवणुवेहा तहेव, थेरे खुड्डग त्ति' दो थेरा खुड्डगे अ एगो इत्थ उवट्ठावणा, अह दो खुड्डगा थेरो अ एगो पत्तो, एगे थेरे
१. वोच्चत्थ-इति पञ्चवस्तुके ॥ २. संजइमज्झे महादेवी-इति पञ्चवस्तुके । संजइधुइमहदेवीअमच्ची-P.C. ॥ ३. च-मु० ॥ ४. दोसु पासेसु-इति पञ्चवस्तुके ।। ५. एगदुहओऽवि ठिआ-इति पञ्चवस्तुके॥
D:\new/d-3.pm53rd proof