________________
६५८]
[धर्मसंग्रह:-तृतीयोऽधिकारः अथ तत्प्रतिपक्षभूतमुपस्थापनानहमाह -
अप्राप्तोऽनुक्तकायादिरज्ञातार्थोऽपरीक्षितः ।
अनुपस्थापनीयोऽयं, गुरुणा पापभीरुणा ॥१०८॥ 'गुरुणा' अस्खलितशीलादिगुणोपेतेन अयम्' उपदय॑मानः शिष्यः अनुपस्थापनीयः' नोपस्थापनाविषयीकार्यः, नास्य व्रतान्यारोपणीयानीत्यर्थः । स कीदृग्? इत्याह –'अप्राप्तः' पर्यायेणोपस्थापनाभूमिमनधिगतः, तथा अनुक्ता' अकथिताः कायाः' षट्कायस्वरूपाणि आदिशब्दाद् व्रतव्रतातिचारादयो यस्यासौ, पर्यायप्राप्तस्यापि षट्कायस्वरूपव्रतव्रतातिचाराद्यकथने हिषट्कायरक्षणाद्यसिद्धेः, तथा अज्ञातः' अनभिगतः सम्यगनवधारित इतियावत् 'अर्थः' सूत्रतात्पर्यं तेन स तथा, गुरुणा कथितेऽपि कायादिस्वरूपे सम्यगनवबुद्धतत्प्रमेयस्य व्रतपालनासिद्धेः, पालनस्य बोधपूर्वकत्वात् , तथा अपरीक्षितः' अकृतपरीक्षः, ज्ञातार्थस्यापि परीक्षां विना छद्मस्थानां व्रतपरिणामालक्ष्यत्वात् । ईदृग् शिष्यो गुरुणा नोपस्थाप्यते तस्मात् प्राप्तः कथितकायादिरभिगतार्थः परीक्षितश्चोपस्थाप्य इति पर्यवस्यति । यतः -
"अप्पत्ते अकहित्ता, अणभिगयऽपिच्छणे अ आणाई।
दोसा जिणेहिं भणिआ, तम्हा पत्तादुवट्ठावे" ॥१॥[पञ्च./६१५ ] इति । गुरुणा कीदृशेनेत्याह –'पापभीरुणा' इति पापानि अनुपस्थापनीयस्योपस्थापनाकरणजनिताऽऽज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनारूपाशुभकर्माणि तेभ्यो भीरुणाभयवतेति समुदायार्थः, भावार्थस्त्वयम् -शिष्यस्य जघन्या मध्यमोत्कृष्टा चेति तिस्रो भूमयः, तत्र -जघन्या सप्तरात्रिदिवा, मध्यमा चातुर्मासिकी, उत्कृष्टा च पाण्मासिकीति । तत्र च क्षेत्रान्तरप्रव्रजिते करणजयार्थं जघन्या भूमिः, बुद्धिविकले अश्रद्दधाने च शिष्ये उत्कृष्टा, एवं मध्यमापि अनधिगतार्थेऽ श्रद्दधाने चैव, परं प्राक्तनाद् विशिष्टतरा इस्वतरा चेतिहृदयम् । भावितमेधाविनोऽपि करणजया) मध्यमैवेति ज्ञेयम् । यतः पञ्चवस्तुके -
"सेहस्स तिन्नि भूमी, जहण्ण तह मज्झिमा य उक्कोसा। राइंदिसत्तचउमासिगा य, छम्मासिआ चेव ॥१॥ [ पञ्च./६१६ ] पुव्वोवठ्ठपुराणे, करणजयट्ठा जहण्णया भूमी । उक्कोसा दुम्मेहं, पडुच्च अस्सद्दहाणं च ॥२॥[पञ्च./६१७]
१. अयं की L.P. ||
D:\new/d-3.pm53rd proof