________________
उपस्थापनायोग्यस्य स्वरूपम् -श्लो० १०६॥]
[६५७ श्लोकोत्तरार्द्धम् , उत्सर्गापवादयोरुक्तलक्षणयोर्यो भेदः स पदविभागः स्यात् । पदयोरुत्सर्गापवादयोविभागो-विभजनमिति व्युत्पत्तेः, 'तुः' विशेषणार्थः । तद्विवेकश्च कल्पव्यवहारादौ प्रसिद्ध इति तत एव ज्ञेयः । इह च सम्यगुत्सर्गापवादभेदनियोगरूपा पदविभागसामाचारीत्यर्थः । तन्निमित्तमालोचनाशुद्ध्यादिकं चोपस्थापनाधिकारानन्तरं प्रदर्शयिष्यत इति ॥१०५॥ अथैवं त्रिविधसामाचारीमाराधयत उपस्थापनालक्षणचारित्रान्तरयोग्यतां दर्शयन्नाह -
एवमाराधयन् सामाचारी सर्वात्मना यतिः ।
भवेदुपस्थापनार्हः, सा च कार्या यथाविधि ॥१०६॥ 'एवम्' अमुना प्रदर्शितप्रकारेण 'सामाचारीम्' उक्तस्वरूपां 'सर्वात्मना' सकलप्रयत्नेन अखण्डामित्यर्थः, 'आराधयन्' पालयन् 'यतिः' उक्तलक्षण उपस्थाप्यन्ते व्रतान्यारोप्यन्ते यस्यां सा उपस्थापना-चारित्रविशेषस्तस्या अर्हो -योग्यो भवेत् इत्यन्वयः । अथ तस्या एव कर्त्तव्यतामाह -'सा च' इत्यादि, सा चोपस्थापना 'यथाविधि' सूत्रोक्तविध्यनुसारेण ‘कार्या' विधेया, गुरुणेति शेषः ॥१०६।। अथोपस्थापनार्हमेवाह -
ज्ञातशस्त्रपरिज्ञादिस्त्यागादिगुणसंयुतः ।
प्रियधर्मावद्यभीरुरुपस्थाप्योऽयमुच्यते ॥१०७॥ 'अयं' यतिरुपस्थापनायाह उपस्थाप्यो -व्रतारोपणयोग्य उच्यते' प्रतिपाद्यते जिनैरिति शेषः, अयं कीदृग् ? इत्याह -'ज्ञातशस्त्रपरिज्ञादिः' ज्ञातमर्थतोऽधिगतं सूत्रतस्तूचितस्यैव पठनात् 'शस्त्रपरिज्ञा' आचाराङ्गप्रथमाध्ययनं तदादिश्रुतं येन स तथा, आदिशब्दाद्दशवैकालिकादिपरिग्रहः, अधिगतशस्त्रपरिज्ञादिहि यतनाकुशलो भवति, ज्ञानपूर्वकत्वाद् दयायाः। यत आर्षम् - "पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए ।
अन्नाणी किं काही ? किं वा नाहीहि ? छेअपावगं" ॥१॥[द.वै.४।३३] इति । तथा त्यागः' परिहरणं प्रस्तावात्परिग्रहादेः स आदिर्येषां ते तदादयस्ते च ते गुणाश्च - श्रद्धासंवेगादयस्तैः संयुतः-परिकलितः, ज्ञातशस्त्रस्यापि त्यागश्रद्धासंवेगादिगुणविकलस्याङ्गारमर्दकादेवि हिंसादिप्रवृत्तेरविरमणात् , तथा प्रियो' वल्लभ, एष परमार्थः, शेषोऽनर्थ इत्यवबुद्ध इत्यर्थः धर्मः -अत्रैव शास्त्रे उक्तलक्षणो येनासौ तथा तथा 'अवयं पापं हिंसादि तस्माद् भीरुः –भयवान् पापभीरोरेव पापेभ्यो निवर्त्तनात् इत्युक्त उपस्थापनार्हः ॥१०७॥
D:\new/d-3.pm5\3rd proof