________________
६५६]
[धर्मसंग्रह:-तृतीयोऽधिकारः करिष्यामः ततोऽसौ ध्रियते, अथ नेच्छन्ति ततस्त्यज्यते गच्छस्यानुमतौ तु इष्यत एव, तस्य च विधिना प्रतीच्छितस्योद्वर्त्तनादि कार्यम् , यत् पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्यास्तदाऽऽचार्येण चोदनीयाः, इत्यलं प्रसङ्गेन । चारित्रोपसंपद्विधिविशेषमाह -
"उवसंपन्नो जं कारणं, तु तं कारणं अपूरितो। ___ अहवा समाणियमी, सारणया वा वि उस्सग्गो" ॥१॥[ आव.नि./७२०] 'यन्निमित्तम् उपसंपन्नः' तुशब्दादन्यच्च सामाचार्यन्तर्गतं किमपि गृह्यते 'तत्कारणं' वैयावृत्त्यादिः 'अपूरयन्' अकुर्वन् यदा वर्त्तत इत्यध्याहारः, किं ?-तदा तस्य स्मारणा क्रियतेऽविनीतस्य पुनविसर्गो वा क्रियते, तथा नापूरयन्नेव यदा वर्त्तते तदैव स्मारणा विसर्गो वा क्रियते, किं तु –'अहवा समाणियंमी'ति, अथवा परिसमाप्ति नीतेऽभ्युपगते प्रयोजने स्मारणा वा क्रियते, यथा समाप्तम् , तद्विसर्गो वेति संयतोपसम्पत् ।
अथ गृहस्थोपसंपद् यथा -तत्र साधूनामियं सामाचारी –सर्वत्रैवाध्वानादिषु वृक्षादधोऽप्यनुज्ञाप्य स्थातव्यम् । यत आह -
"इत्तरिअं पि न कप्पइ, अविदिन्नं खलु परोग्गहाईसु।
चिट्ठित्तु निसीइत्तु व, तइअव्वयरक्खणट्ठाए" ॥१॥[आव.नि./७२१] 'परोग्गहाइसुत्ति परावग्रहादिषु इति गृहस्थोसम्पत् । इत्युक्ता चक्रवत्प्रतिपदं भ्रमन्तीति चक्रवालविषया दशविधा सामाचारी । एतत्सेवकानां च महाफलम् । यतः -
"एयं सामायारिं, गँजंता चरणकरणमाउत्ता।
साहू खवंति कम्मं, अणेगभवसंचिअमणंतं" ॥१॥[आव.नि./७२३] प्रवचनसारोद्धारे तु -प्रकारान्तरेणापि दशधा चक्रवालसामाचारी प्रोक्ता । तथाहि -
"पडिलेहणापमज्जण-भिक्खायरिलोअभुंजणा चेव ।
पत्तगधुवणविआरे थंडिलआवस्सयाईआ" ॥१॥ [ प्रव.७६८, पञ्च.२३०] एतद्व्याख्यानं तु ओघसामाचार्यां गतप्रायमेवेति, इदानीं पदविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा, स्वरूपमात्रं तु प्रदर्श्यते –'भेद' इत्यादि
१. वा विसग्गा वा-इति आवश्यकनियुक्तौ ।। २. P. आवश्यकहारिभद्रीयवृत्तिः प० १८१ । नानापू मु० ॥ ३. °ध्वादिषु वृक्षाद्यधो' इति आवश्यकहारिभद्रयां वृत्तौ ।। ४. णभिक्खिरिआलो इति पञ्चवस्तुके । णभिक्खरिआलो' इति प्रवचनसारोद्धारे ।। ५. रा-पञ्चवस्तुक-प्रवचनसारोद्धारयोः ॥
D:\new/d-3.pm5\3rd proof