________________
दशधासामाचारीस्वरूपम् -श्लो० १०४/१०५॥]
[६५५ "दुविहा य चरित्तंमी, वेआवच्चे तहेव खमणे य । णिअगच्छा अण्णंमी, सीअणदोसाइणा हुँति ॥१॥[आव.नि./७१८] इत्तरिआइ विभासा, वेआवच्चंमि तहय खमणे य।
अविगिट्ठविगिटुंमि अ, गणिणा गच्छस्स पुच्छाए" ॥२॥[ आव.नि./७१९] इह चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यं प्रतिपद्यते, स च कालतो द्विधा -इत्वरो यावत्कथिकश्च, आचार्यस्यापि वैयावृत्त्यकरोऽस्ति न वा, तत्रायं विधिः -यदि नास्ति ततोऽसाविष्यत एव । अथास्ति स इत्वरो यावत्कथिको वा, आगन्तुकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्कथिको ततश्च यो लब्धिमान् स कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते । अथ द्वावपि लब्धियुक्तौ, ततो वास्तव्य एव कार्यते इतरस्तूपाध्यायादिभ्यो दीयते इति, अथ नेच्छति ततो वास्तव्य एव प्रीतिपूर्वं तेभ्यो दीयते आगन्तुकस्तु कार्यते इति । अथ प्राक्तनोऽपि तेभ्यो नेच्छति, तत आगन्तुको विसर्च्यते एव । ___अथ वास्तव्यो यावत्कथिक इतरस्त्वितर इत्यत्राप्येवमेव भेदाः कार्याः, यावदागन्तुको विसर्च्यते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या विश्राण्यत इति, अथ वास्तव्यः खल्वितर आगन्तुकस्तु यावत्कथिकस्ततोऽसौ वास्तव्योऽवधिकालं यावत्तेभ्यो दीयते, शेषं पूर्ववत् , अथ द्वावपीत्वरौ, तत्राप्येकस्तेभ्यः कार्यः, शेषं पूर्ववद् , अन्यतमो वाऽवधिकालं यावद्धार्यते, इत्येवं यथाविधिना विभाषा कार्येत्युक्ता वैयावृत्त्योपसंपत् ।
क्षपणोपसंपद् यथा चारित्रनिमित्तं कश्चित् क्षपणार्थमुपसम्पद्यते, स च क्षपको द्विविधः, इत्वरो यावत्कथिकश्च, यावत्कथिक उत्तरकालेऽनशनकर्ता, इत्वरस्तु द्विधा, विकृष्टोऽविकृष्टश्च, तत्राष्टमादिक्षपको विकृष्टः, चतुर्थषष्ठक्षपकस्तु अविकृष्ट इति, तत्रायं विधिः -अविकृष्टः खल्वाचार्येण प्रष्टव्यः -हे आयुष्यमन् ! पारणके त्वं कीदृशो भवसि?, यद्यसावाह ग्लानोपमः ततोऽसौ वाच्यः अलं तव क्षपणेन स्वाध्यायवैयावृत्त्यकरणे यत्नं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते 'विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपीष्यत एव,' यस्तु मासादिक्षपको यावत्कथिको वा स इष्यत एव, तत्राप्याचार्येण गच्छ: प्रष्टव्यो, यथाऽयं क्षपक उपसंपद्यत इति, अन्यथा सामाचारीविराधना, यतस्ते सन्दिष्टा अप्युपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति । अथ पृष्टा ब्रुवते यथास्माकमेकः क्षपकोऽस्त्येव तत्समाप्तावश्यं
१. 'चार्यस्य-इति आवश्यकहारिभद्र्यां वृत्तौ प० १८० ॥ २. विश्राम्यत-इति आवश्यकहारिभद्रयां वृत्तौ ।। ३. प्तावस्य-इति आवश्यकहारिभद्रयां वृत्तौ ॥
D:\new/d-3.pm53rd proof