________________
६५४]
[धर्मसंग्रहः-तृतीयोऽधिकार: अथ कायोत्सर्गद्वारमाह - "सव्वे काउस्सग्गं, करेंति सव्वे पुणो वि वंदति । णासपणे णाइदूरे, गुरुवयणपडिच्छया सुणंति" ॥१॥[आव.नि.७०६, पञ्च.१००५]
सर्वे श्रोतारो विघ्नोपशान्त्यर्थमनुयोगप्रारम्भनिमित्तं कायोत्सर्गं कुर्वन्ति, तं चोत्सार्य सर्वे पुनरपि वन्दन्ते, ततो नात्यासन्नदूरस्थाः शृण्वन्तीतिभावः । श्रवणविधिर्यथा - "णिद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिंउडेहिं । भत्तिबहुमाणपुव्वं, उवउत्तेहिं सुणेअव्वं ॥१॥[आव.नि.७०७, पञ्च.१००६] अभिकंखंतेहिं सुहा(भा )सिआइं वयणाई अत्थसाराई। विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं॥२॥ [आव.नि.७०८, पञ्च.१००७] ___ 'हरिसागएहिं'ति संजातहषैरित्यर्थः, अन्येषां च संवेगकारणादिना हर्षं जनयद्भिः, एवं शृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति । ततः किम् ? इत्याह - "गुरुपरिओसगएणं, गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं, खिप्पं पारं समुवयंति" ॥१॥[आव.नि.७०९,पञ्च.१००८ ]
ततः"वक्खाणसमत्तीए, जोगं काऊण काइआणं च । वंदन्ति तओ जेद्वं, अन्ने पुव्वं चिअभणंति" ॥२॥[ आव.नि.७१० ,पञ्च.१००९]
ज्येष्ठश्चात्र लघुरपि व्याख्यातैव । यतः - "जइ वि अ वयमाइएहि, लहुओ सुत्तत्थधारणापडुओ। वक्खाणलद्धिमं जो, सो चिअ इह घेप्पई जेट्टो" ॥१॥[ आव.नि.७१३, पञ्च.१०१२]
आशातनादोषं परिजिहीर्षयन्नाह - "आसायणा वि णेवं, पडुच्च जिणवयणभासणं जम्हा । वंदणयं राइणिए तेण गुणेणं पि सा चेव" ॥१॥[आव.नि.७१४, पञ्च.१०१३]
'तेन गुणेन' व्याख्यानलक्षणेनेति ज्ञानोपसंपद्विधिरुक्तः । दर्शनोपसंपद्विधिरप्यनेन तुल्ययोगक्षेमत्वादुक्त एव । तथा च दर्शनप्रभावनीयसंमत्यादिशास्त्रपरिज्ञानार्थमेव दर्शनोपसंपदिति । अधुना चारित्रोपसंपद्विधिर्यथा -
१. गणे-आव०नि० । न्ने-पञ्चवस्तुके ॥ २. P. । च्छग-मु० C. । ‘च्छगा-आवश्यकनियुक्ती पञ्चवस्तुके च ॥ ३. अत्थमहुराई-इति पञ्चवस्तुके ।। ४. P. आवश्यकनियुक्ति-पञ्चवस्तुकयोः । तमु मु० C. ॥ ५. पञ्चवस्तुके । लद्धिमंतो-मु० C. आवश्यकनियुक्तौ ।। ६. भासयं-आवश्यकनियुक्तौ । °भासगं-पञ्चवस्तुके ॥ ७. सो-आवश्यकनियुक्ति-पञ्चवस्तुकयोः ॥ ८. तुला-आवश्यकहारिभद्रीयावृत्तिः भा० १ प० १८० ॥
D:\new/d-3.pm5\3rd proof