________________
दशधासामाचारीस्वरूपम् -श्लो० १०४/१०५॥]
[६५३ परिणतपरिवारमपरिवारं च नानुज्ञापयेद् गुरुं शिष्यः, न चान्योऽपि तं धारयेत् , संदिष्टः संदिष्टस्य समीप उपसम्पद्यते, तत्र मिथः परीक्षा भवति –साधूनाममार्गप्रवृत्तौ नोदनं करोत्यागन्तुक: मिथ्यादुष्कृतदाने त्रयाणां वाराणामुपरि च गुरुकथने तत्संमतौ शीतलतया त्यागः, असंमतौ निवासः, गुरोरपि तं प्रति परुषाधिककथनं जीतम् , उपयोगतः प्रतिपन्ने शुद्धौ, [अथ निवेदनं गुरोः श्रुतसम्बन्धादेरेतावन्तं कालमर्थ इति । आभाव्यानुपालना च कार्या शिष्येण, नालबद्धवल्लीव्यतिरिक्तं देयम् , गुरुणापि परिपालनीयम् , एवं हि स्वस्यास्वामित्वं नि:संगतेत्यर्थः । गुरोश्च पूजा इतरापेक्षयाऽनालबद्धनिवेदनेन । अनेन कल्पेन शुभाशयोपपत्तेः परिणमति श्रुते व्यर्थमित्याभाव्यदानं शिष्येण कर्त्तव्यम् , गुरुणापि तदनुग्रहधिया ग्रहणम् , न लोभादिति] द्विविधा चारित्रार्थाय, यथा - "वेयावच्चे खमणे काले आवकहाइ अ"[आव.नि. ६९९उत्त.] चारित्रोपसंपत् वैयावृत्त्यविषया क्षपणविषया च । इयं कालतो यावत्कथिका चकारादित्वरा च भवति, अयमर्थः -चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च, क्षपकोऽप्युपसम्पद्यते द्विधा च भवतीति । अथ ज्ञानोपसंपद्विधिर्यथा – "मज्जण निसिज्ज अक्खे, किइकम्मुस्सग्ग वंदणं जेटे। भासंतो होइ जिट्ठो, न उ परियाएण तो वंदे" ॥१॥[आव.नि.७०३, पञ्च.१००१]
एतद्व्याचिख्यासयैवेदमाह - "ठाणं पमज्जिणं, दोन्नि निसिज्जा य हुंति कायव्वा । एगा गुरुणो भणिया, बितिआ पुण हुँति अक्खाणं" ॥२॥[आव.नि.७०४, पञ्च.१००२]
'अक्खाणं'ति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या कार्येत्युत्सर्गः । व्याख्यातं द्वारत्रयम् , कृतिकर्मव्याचिख्यासयाह - "दो चेव मत्तगाई, खेले काइअ सदोसगस्सुचिए । एवंविहो वि णिच्चं, वक्खाणिज्जत्तिभावत्थो ॥१॥[पञ्च./१००३] जावइआ य सुणंती, सव्वे वि अ ते तओ उ उवउत्ता। पडिलेहिउण पोत्ति, जुगवं वंदति भावेणं" ॥२॥[ पञ्च./१००४]
'मात्रकं' समाधिः कृतिकर्मद्वार एव च विशेषाभिधानमदुष्टमित्यर्थः । कृतव्याख्यानोत्थानानुत्थानाभ्यां पलिमन्थात्मविराधनादयश्च दोषा भाव्या इति द्वारम् ।
D:\new/d-3.pm53rd proof