________________
६५२]
[धर्मसंग्रह:-तृतीयोऽधिकारः ___ [अयं भावः -नैषेधिकीप्रयोगः खलु स्वप्राग्भाव्यनाभोगादिनिमित्तकप्रत्यवायपरिहारार्थं एवेष्यते, न च गमनात् प्राक् संवृतगात्रतया स्थितस्य साधोः प्रत्यवायो भवति यत्परिहारार्थं नैषेधिकीं प्रयुञ्जीत, एवं नैषेधिकीप्रयोगकाले आवश्यिकीप्रयोगोऽपि नापादनीयः, तदानीमावश्यिकीक्रियाव्यापारस्योत्तरकालव्यापारपरित्यागाभिप्रायेणैव तत्प्रयोगादन्यतस्तदनिर्वाहादिति] ५, आपृच्छादिविषया उक्ता एव ९, उपसंपच्च द्विधा, गृहस्थसाधूपसम्पद्भेदात् , तत्रास्तां तावद् गृहस्थोपसम्पत् साधूपसंपत्प्रतिपाद्यते, सा च त्रिविधा ज्ञानादिभेदाद् आह च
"उवसंपया य तिविहा, णाणे तह दंसणे चरित्ते अ।
दंसणणाणे तिविहा, दुविहा य चरित्तअट्ठाए" ॥१॥[ आव.नि./६९८] ज्ञाने ज्ञानविषया इत्यादिरर्थः, तत्र -दर्शनज्ञानयोस्त्रिविधा । यथा - "वत्तणा संधणा चेव, गहणा सुत्तत्थतदुभया ।
वेयावच्चे खमणे, काले आवकहाइ अ" ॥२॥[आव.नि./६९९] वर्त्तना सन्धना चैव ग्रहणमित्येतत् त्रितयम् , 'सुत्तत्थतदुभय'त्ति सूत्रार्थोभयविषयमवगन्तव्यमित्येतदर्थमुपसंपद्यते । तत्र 'वर्त्तना' प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, 'सन्धना' तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलना योजना इत्यर्थः, 'ग्रहणं' पुनस्तस्यैव तत्प्रथमतया आदानमिति । एतत् त्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम् , एवं ज्ञाने नव भेदाः, दर्शने –दर्शनप्रभावनीयशास्त्रविषया एत एव द्रष्टव्याः, अत्र संदिष्टो गुरुणाअमुकं शास्त्रं पठेति दत्ताज्ञः संदिष्टस्याचार्यस्य यथाऽमुकस्योपसंपदं प्रयच्छेत्येवमादिचतुर्भङ्गी, तत्राद्य उक्तः, संदिष्टोऽसंदिष्टस्यान्यस्याचार्यस्येति द्वितीयः, असंदिष्टः संदिष्टस्य न तावदिदानी गन्तव्यम् अमुकस्येति तृतीयः, असंदिष्टोऽसंदिष्टस्य न तावदिदानीं च चामुकस्येति चतुर्थः, अत्र पुनराद्यः शुद्धः, शेषास्त्वशुद्धा इति । यतः स्वगुरुसकाशे गृहीतसूत्रार्थस्तत्प्रथमतया तदधिकग्रहणसमर्थः प्राज्ञोऽनुज्ञातो गुरुणोपसम्पद्यतेऽभिप्रेतसमीप इत्युपसम्पदः कल्पः । तदुक्तम् पञ्चवस्तुके
"उवसंपयाय(ए) कप्पो, सुगुरुसगासे गहीअसुत्तत्थो ।
तदहिगगहणसमत्थोऽणुन्नाओ तेण संपज्जे" ॥१॥ [ पञ्च./९८६ ] इति । *इदं चोत्सर्गमाश्रित्योक्तम् , अपवादतस्तु प्रवचनाऽविच्छेदहेतोद्वितीयादयोऽप्यनुज्ञाता: तथा चोक्तमावश्यकवृत्तौ -"पुनःशब्दस्य विशेषणार्थत्वाद् द्वितीयपदेनाऽव्यवच्छित्तिनिमित्तमन्येऽपि द्रष्टव्या इति"* [आवश्यकाहारिभद्रीयवृत्तिः प० १७९] तत्राप्य
१. तुला-आवश्यकहारिभद्रीया वृत्तिः प० १७८ तः ॥ २. अमुकं शास्त्रं पठेति दत्ताज्ञः-मु० C. नास्ति, L.P. अस्ति । ३. * * चिह्नद्वयमध्यवर्ती पाठ: मु० C. नास्ति, L.P. अस्ति ।।
D:\new/d-3.pm5\3rd proof