________________
दशधासामाचारीस्वरूपम् -श्लो० १०४/१०५॥]
[६५१ ____ कार्येण' प्रयोजनेन, अनेन निष्कारणगमननिषेध उक्तः, 'गुरुनियोगेन' गुर्वनुज्ञयाऽनेन च स्वच्छन्दगमननिषेध उक्तः, 'सूत्रनीत्या' ईर्यासमित्यादिलक्षणेनानेन चानुपयुक्ततया गमननिषेध उक्तः, 'अण्णत्थजोगाओ'त्ति अन्वर्थयोगात् अनुगतशब्दार्थसम्बन्धात् अन्वर्थश्चोक्त एव, अत्र च कार्यं ज्ञानादि ज्ञेयम् , तेन यत्किञ्चित्कार्यमवलम्ब्य गच्छतो नावश्यिकी शुद्धा भवतीत्युक्तं भवति । तथाचोक्तं तत्रैव - "कज्ज पि णाणदंसणचरित्तजोगाण साहगं जं तु । जइणो सेसमकज्जं, ण तस्स आवस्सिआ सुद्धा" ॥१॥[पञ्चा./१२।१९] इति]
न च कारणेन गच्छतः सर्वस्यैवावश्यिकी भवति, किं तु आवश्यकैः प्रतिक्रमणादिभिः सर्वैर्युक्तयोगिनो गुप्तयोगत्रयेन्द्रियस्य तिष्ठतः कारणे प्रवर्त्तमानस्यापि भवति । यतः - "आवस्सिआ उ आवस्सएहिं सव्वेहि जुत्तजोगिस्स । मणवयणकायगुतिंदिअस्स आवस्सिआ होइ" ॥१॥[आव.नि./६९४ ] इति ।
आवश्यकैः सर्वैर्युक्तयोगिनो भवति शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि, शेषं सुगमम् , इत्यावश्यिकीविषयः । नैषेधिकीविषयश्चावग्रहप्रवेशः, स च शय्यास्थानादिरूपो ज्ञेयः । यतः - "सेज्जं ठाणं च जहिं, चेएइ तहिं निसीहिआ होइ। जम्हा तत्थ निसिद्धो तेणं तु निसीहिआ होइ" ॥१॥[आव.नि./६९५] इति ।
शय्या-शयनीयस्थानं ताम् , स्थानमूर्ध्वस्थानं कायोत्सर्ग इत्यर्थः, तं च यत्र चेतयते इति जानाति करोति वा शयनक्रियां च कुर्वता निश्चयतः शय्या कृता भवतीति, यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थोऽथवा तुशब्दार्थो ज्ञेयः स च विशेषणार्थः, कथं ?, प्रतिक्रमणाद्यशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यास्थानं च यत्र चेतयते तत्रैवंविधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति नान्यत्र, यस्मात् तत्र निषिद्धोऽसौ, तेनैव कारणेन नैषेधिकी भवति, निषेधात्मकत्वात् तस्या इति, [तथा देवगुर्ववग्रहभूप्रवेशेऽपि नैषेधिकीप्रयोगो भवतीति ज्ञेयमेव] अर्थश्चानयोरेकगोचरत्वादेक: यतोऽवश्यकर्त्तव्यगोचरावश्यिकी पापकर्मनिषेधक्रियागोचरा च नैषेधिकी अवश्यकर्मपापनिषेधक्रिययोश्चैक्यादनयोरेकार्थत्वम् , भेदोपन्यासस्तु अभिधानभेदात् , क्वचित् स्थितिगमनक्रियाभेदाच्च ।
१. इति अन्व' L.P. || २. L.P. पञ्चाशकप्र० । कज्जं च-मु० C. ॥ ३. तत्थ-इति पञ्चाशके । 'तत्र' इति पञ्चाशकवृत्तौ ॥ ४. 'ययोश्चैक्यमेव-P.L. ||
D:\new/d-3.pm53rd proof