________________
६५०]
[धर्मसंग्रहः-तृतीयोऽधिकारः तथाकारः, कार्यः, तदन्यस्मिन्नसंविज्ञगीतार्थे संविग्नागीतार्थेऽसंविग्नागीतार्थे च वक्तरि सति युक्तिक्षमे वस्तुनि तथाशब्द: प्रयोज्यः न त्वयुक्तिक्षमे । तदुक्तं पञ्चाशके -
"इअरम्मि विगप्पेणं, जं जुत्तिखमं तर्हि ण सेसंमी।
संविग्गपक्खिए वा, गीए सव्वत्थ इअरेण" ॥१॥ [ पञ्चा./१२।१६] पूर्वार्द्धं सुगमम् , परार्द्ध च वेति पक्षान्तरे 'इतरेणे'ति अपवादेनेत्यर्थः, तथा च सुसाधोः संविग्नपाक्षिकस्य च संवेगेन शुद्धभाषिणस्तथाकाराप्रयोगे मिथ्यात्वम् । तदुक्तं तत्रैव
"संविग्गोऽणुवएस, ण देइ दुब्भासिअं कडुविवागं।
जाणतो तंमि तहा, अतहक्कारो हु मिच्छत्तं" ॥१॥[ पञ्चा./१२।१७ ] 'अतहक्कार'त्ति तथाकाराऽप्रयोगः] २
अथावश्यिकीनैषेधिक्योर्विषयौ यथासंख्येन निर्गमप्रवेशौ, यतः-"आवस्सइं च णितो, जं च अइंतो निसीहिअं कुणइ"[आव.नि./६९२पू.] त्ति ‘णितो'त्ति निर्गच्छन् 'अइंतो'त्ति आगच्छन् प्रविशन्नित्यर्थः । निर्गमश्च संयतस्य कारणिक एव, तथा च कारणे गच्छत आवश्यिकी भवतीत्यापन्नम् । यतः -
"एगग्गस्स पसंतस्स, न हुंति इरिआदओ गुणा होति ।
गंतव्वमवस्सं कारणम्मि आवस्सिआ होइ" ॥१॥[आव.नि./६९३] त्ति । एकमग्रमालम्बनमस्येति एकाग्रस्तस्य, स चाप्रशस्तालम्बनोऽपि भवतीत्यत आह –'प्रशांतस्य' क्रोधरहितस्य तिष्ठतः इर्यादयो न भवन्ति, अत्रेर्याशब्देन तत्कार्यं कर्म गृह्यते, कारणे कार्योपचारात् , आदिशब्दादात्मसंयमविराधनादिदोषाश्च, तथा 'गुणाश्च' स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु 'गन्तव्यमवश्यं' नियोगतः 'कारणे' गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति । अनेन च निष्कारणगमननिषेध उक्तः, कारणे च गच्छत आवश्यिकी अवश्यंगन्तव्ये ज्ञानादित्रयहेतुभूते भिक्षाटनादौ कारणे सति विधेयाऽऽवश्यिकीति व्युत्पत्तेरिति गाथार्थः । [पञ्चाशकेऽप्युक्तम् -
"कज्जेणं गच्छंतस्स उ, गुरुणिओगेण सुत्तणीईए। आवस्सिअ त्ति णेआ, सुद्धा अण्णत्थजोगाओ" ॥१॥[पञ्चा./१२।१८ ]
१. वेति मु० नास्ति, L.P.C अस्ति ।।
D:\new/d-3.pm5\3rd proof