________________
दशधासामाचारीस्वरूपम् -श्लो० १०४/१०५॥]
[६४९ व्यतिरेके च दोषो यथा –
"जं दुक्कडं ति मिच्छा, तं चेव निसेवई पुणो पावं ।
पच्चक्खमुसावाई, मायानिअडीपसंगो अ" ॥१॥[आव.नि./६८६ ] इति । मायैव निकृतिर्मायानिकृतिस्तस्याः प्रसङ्गः स दुष्टान्तरात्मा निश्चयतश्चेतसाऽनिवृत्त एव गुर्वादिरञ्जक इत्यर्थः २॥
अथ तथाकारविषयप्ररूपणायां प्रथमं तथाकारदानाहॊ यथा गीतार्थो मूलोत्तरगुणयुक्तश्च । यत:
"कप्पाकप्पे परिनिट्ठिअस्स, ठाणेसु पंचसु ठिअस्स ।
संजमतवड्ढगस्स य, अविगप्पेणं तहाकारो" ॥१॥[आव.नि./६८८] कल्पो विधिराचार इति पर्यायास्तद्विपरीतोऽकल्पः, जिनस्थविरकल्पादिर्वा कल्प: चरकादिदीक्षा पुनरकल्पस्तयोः समाहारद्वन्द्वे एकत्वम् , तस्मिन् परिनिष्ठितो ज्ञाननिष्ठां प्राप्त इत्यर्थः, तस्य, तथा पञ्चसु स्थानेषु –महाव्रतेषु स्थितस्य । तथा संयमतपोभ्यामाढ्यस्य एतादृशस्याविकल्पेन –निश्चयेन तथाकार: कार्यः, तस्य च विषया वाचनाप्रतिश्रवणादयः । यतः -
"वायणपडिसुणणाए, उवएसे सुत्तअत्थकहणाए ।
अवितहमेअंति तहा, पडिसुणणाए तहाकारो" ॥१॥ [ आव.नि./६८९] वाचना सूत्रप्रदानलक्षणा तस्याः प्रतिश्रवणा तस्यां गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकार: कार्यः इत्यर्थः । तथा सामान्येनोपदेशे चक्रवाल-समाचारीप्रतिबद्ध गुरोरन्यस्य वा सम्बन्धिनि स कार्यः, तथा सूत्रार्थकथनायां व्याख्याने इत्यर्थः, अवितथमेतत यदाहर्ययमिति, न केवलमक्तेष्वेवार्थेष तथाकारप्रवत्तिस्तथा प्रतिपच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायां च [तथाकारस्तथेति शब्दप्रयोगः कार्यो भवतीतिशेषः । अयं चोत्सर्गः, अपवादतस्तु कल्पाकल्पपरिनिष्ठितादिविशेषणविशिष्टवक्तभावे -
"सुद्धं सुसाहुधम्मं, कहेइ निंदइ अनिअयमायारं ।
सुतवस्सिआण पुरओ, हवइ अ सव्वोमरायणिओ" ॥१॥ [उ.मा./५५५] इत्यादिलक्षणलक्षितसंविग्नपाक्षिकेन गीतार्थेन प्रज्ञापिते युक्तिक्षमे तदक्षमे वोच्यमाने
१. प्रसङ्गः मु० C. नास्ति, L.P. आस्ति ।
D:\new/d-3.pm5\3rd proof