________________
६४८]
[धर्मसंग्रहः-तृतीयोऽधिकारः __ अभ्यर्थितश्च साधुगुर्वादिकार्यकर्त्तव्याभावे सत्यनुग्रहार्थम् इच्छाकारं करोति, इच्छाम्यहं तव करोमीति, गुर्वादिकार्यान्तरे कर्त्तव्ये तु तत्कारणं दीपयतीति अभ्यर्थितसाधुगोचरविधिः । यतः -
"तत्थ वि सो इच्छं से, करेइ दीवेइ कारणं वा वि।
इहरा अणुग्गहत्थं, कायव्वं साहुणो किच्चं" ॥१॥[आव.नि./६७५ ] इति । तथा ज्ञानाद्यर्थमाचार्याणां वैयावृत्यं विश्रामणादि वा कश्चित् साधुः कुर्यात् तत्राप्याचार्याणां तं साधुं वैयावृत्त्ये नियोजयताम् इच्छाकार: कर्त्तव्यो भवति, इच्छाकारपूर्वं योजनीय इत्यर्थः । यतः -
"अहवा णाणाईणं, अट्ठाए जो करेइ किच्चाणं ।
वेयावच्चं किंचिवि तत्थ वि तेसिं भवे इच्छा ॥१॥[आव.नि./६७६ ] किमित्यत आह -यस्मात् -
"आणाबलाभिओगो, णिग्गंथाणं ण कप्पई काउं।
इच्छा पउंजिअव्वा, सेहो राइणिए य तहा" ॥१॥[आव.नि./६७७] एष चोत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावतिदुर्विनीते प्रयोक्तव्यौ, तेन सहोत्सर्गत: संवास एव न कल्पते, बहुस्वजननालप्रतिबद्धे त्वपरित्याज्येऽयं विधिः - प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेत्याह -
"जह जच्चबाहलाणं, आसाणं जणवएसु जायाणं। सयमेव खलिअ(ण )गहणं,अहवा विबलाभिओगेणं॥१॥[ आव.नि./६७८ ] परिसज्जाए वि तहा. विणीयविणयंमि नस्थि अभिओगो।
सेसंमि उ अभिओगो, जणवयजाए जहा आसे" ॥२॥[आव.नि./६७९ ] जातशब्दः प्रकारवचनः, "विणीयविणयंमि'त्ति विविधमनेकप्रकारं -नीतः प्रापितो विनयो येन स तथाविध इति । अथ मिथ्याकारविषयो यथा -समितिगुप्तिरूपसंयमयोगेऽभ्युत्थितस्य यत्किञ्चिद्वितथाचरणे मिथ्यादुष्कृतं दातव्यम् , संयमयोगविषयायां च प्रवृत्तौ वितथासेवने मिथ्यादुष्कृतं दोषापनोदाय समर्थं न तूपेत्यकरणगोचरायां नाप्यसकृत्करणगोचरायामिति हार्दम् । यतः -
"जं दुक्कडं ति मिच्छा, तं भुज्जो कारणं अपूरितो।
तिविहेण पडिक्कतो, तस्स खलु दुक्कडं मिच्छा" ॥१॥[ आव.नि./६८५] १. खलिण-इति आवश्यकनियुक्तौ । खालिनग्रहणाम् इति तत्र वृत्तौ प० १७४ ॥
D:\new/d-3.pm53rd proof