________________
दशधासामाचारीस्वरूपम् -श्लो० १०४/१०५॥]
[६४७ ___ न चात्मलब्धिकादेरप्यात्मोदरपूर्तिमात्रोपयोग्ये च भक्तादिकं गृह्णतोऽधिकभक्ताद्यभावात् कथं छन्दना सम्भव इति वाच्यम् । तेषामपि बालाद्यनुग्रहार्थमधिकग्रहणस्यानुज्ञातत्वात् तदुक्तम् – “नाणादुवग्गहे सइ अहिगगहणं इमस्सणुण्णायंति" [ ] त्तिA८। तथा 'निमन्त्रणा' अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामीत्येवम्भूता ९। उपसंपदनम् उपसंपत् -ज्ञानाद्यर्थं गुर्वन्तराश्रयणम् १०। इति दशधासामाचारीसमासार्थः ।
विस्तरार्थस्तु प्रत्येकं स्वस्वविषयादिप्रदर्शनेन ज्ञेयः, स च यथा -उत्सर्गतः साधुना सति सामर्थ्य कार्यार्थं परो नाभ्यर्थयितव्यः, अनिगूहितबलवीर्येण भाव्यम् , तत्कार्यस्य असामर्थ्य अप्रावीण्ये वा रत्नाधिकं विहायान्येषामभ्यर्थनाविषयमिच्छाकारं करोति, यदि वाऽनभ्यर्थितोऽपि कोऽप्यन्यस्तत्प्रयोजनकरणशक्तो निर्जरार्थी साधुः कञ्चन साधु चिकीर्षितकार्यं विनाशयन्तं गुरुतरकार्यकरणसमर्थमविनाशयन्तमपि अभ्यर्थयन्तं वाऽभिलषितकार्यकरणायान्यन्तरं साधुं दृष्ट्वा तत्कार्यं कर्तुकामस्तत्रापि इच्छाकारं प्रयुञ्जीत –'इच्छाकारेण युष्मदीयमिदं कार्यं करोमि' इति ? युष्माकमिच्छाक्रियया करोमि, न बलादित्यर्थः । यतः - "जइ अब्भत्थिज्ज परं, कारणजाए करेज्ज से कोई। तत्थ वि इच्छाकारो, न कप्पइ बलाभिओगो अ॥१॥[ आव.नि./६६८ ] जइ होज्ज तस्स अणलो, कज्जस्स विजाणई णवा वाणं । गेलण्णाईहिं व होज्ज वावडो कारणेहिं सो ॥२॥[ आव.नि./६७०]
'तस्स अणलो'त्ति कार्यस्याऽसमर्थः 'वाणं'ति पादपूरणे, ग्लानादिभिर्वा भवेद् व्याप्त इति । रायणि वज्जित्ता, इच्छाकारं करेइ सामण्णं । एअं मज्झं कज्ज, तुब्भे अ करेह इच्छाए ॥३॥[ आव.नि./६७१ ] अहवा वि विणासंतं, अब्भत्थेतं च अण्ण दट्टणं । अण्णो कोई भणेज्जा, तं साहू णिज्जरट्ठीओ ॥४॥[ आव.नि./६७२ ] अहयं तुब्भे एअं, करेमि कज्जंतु इच्छकारेण । तत्थ वि सो इच्छं से, करेइ मज्जायमूलव(लि)यं" ॥५॥[आव.नि./६७३ ] इति ।
१. सेसाणं-इति आवश्यकनियुक्तौ ॥ २. आवश्यकनियुक्तिः । अब्भेर्थतं-मु० । अब्भत्थेअं P.C. || ३. मज्जायमूलव(ला)य-मु० । मज्जायमूलवयं-C.P. | मज्जायमूलियं-इति आवश्यक निर्युक्तौ । मर्यादामूलम् -इति तत्रैव हारिभद्रयां वृत्तौ प० १७३ ।।
D:\new/d-3.pm53rd proof