________________
६४६ ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
तथा चेच्छाकारेण र्ममेदं कुरु तव वाऽहं करोमीतिनिर्देशोऽभ्युपगमो वा इच्छाकार इति फलितम् १। तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः मिथ्याक्रियेत्यर्थः, तथा च संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तत्क्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयम् २। तथाकरणं तथाकारः, स च सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवंस्वरूपः ३ । तथा 'अवश्यनिषेधयोः ' कृत्ययोः 'गता' प्राप्ता आवश्यिकी नैषेधिकी चेत्यर्थः, तत्रावश्यङ्कर्त्तव्यैर्ज्ञानाद्यर्थप्रयोजनैनिर्वृत्ता तत्प्रयोजना वा योपाश्रयादिनिर्गमक्रिया साऽऽवश्यकी तत्संसूचिका वागपि तथा ४। निषेधेन - असंवृतगात्रचेष्टानिवारणेन निर्वृत्ता तत्प्रयोजना वा क्रिया - शय्यादिप्रवेशनक्रिया नैषेधिकी, तत्संसूचिका वागपि तथा ५। आ - मर्यादया - तथाविधविलक्षणयाऽभिविधिना वा - सर्वप्रयोजनाभिव्याप्तिलक्षणेन प्रच्छनं - गुरोः प्रश्नकरणमापृच्छा* अयं भावः यत्कार्यं साक्षादाप्रष्टुं शक्यते विशेषप्रयोजनं च तत्र साक्षादापृच्छा, यत् तुमुहुः २ सम्भवितया प्रष्टुमशक्यं तत्राऽपि बहुवेलसन्देशनेन आपृच्छा आवश्यकीति * । ६ । तथा पुनः पृच्छा प्रतिपृच्छा, सा च भवतेदं कार्यमिति प्राग्नियुक्तेनापि करणकाले कार्या अहं तत्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति, निषिद्धेन वा पुन: प्रयोजनतः कर्त्तुकामेनेति xअथवा चिकीर्षति कार्यप्रवृत्तौ त्रिवारस्खलनायां कायोत्सर्गावश्यकाधिकारोक्ता अष्टोच्छ्वासमानकायोत्सर्गादिविधिप्रयोगेऽप्येषा कार्याx |७| चः समुच्चये, तथा छन्दना च प्राग्गृहीतेन अशनादिनाशेषसाधुभ्यो मयेदमशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति दानार्थमभ्युत्थानम् ऐषा चात्मलब्धिकविकृष्टतपस्विप्रभृतीनां योग्येति विशेषविषया यतस्ते पारणे मण्डल्या बहिर्भोजनकारिणइति तेषामेतदौचित्यम् इतरेषां तु यतीनां मण्डलीभोग एकभक्तं च नियमेनैवेति प्राग्गृहीतभक्ताद्यभावान्निर्विषया छन्दना । उक्तं च –
"जो अप्पलद्धिगो खलु, विसिट्ठखवगो व पारणे इत्तो । इहरामंडली भोगो, जईण तह एगभत्तं च ॥ [ ]त्ति ।
१. न तु बलाभियोगेन ममेदं - मूल ॥ २. * * चिह्नद्वयमध्यवर्ती पाठ: - मु० नास्ति, अस्ति ॥ ३. पुनः L. नास्ति ॥ ४ x x चिह्नद्वयमध्यवर्ती पाठ: मु० C. नास्ति, L.P. अस्ति ॥ ५. L. आवश्यकहारिभद्रीया वृत्तिः ॥ प्राग्गृहीताशनादेरशेष' मु० C. ॥ ६. AM चिह्नद्वयमध्यवर्तीपाठः मु० C. नास्ति, L. P. अस्ति ॥
D:\new/d-3.pm5\ 3rd proof