________________
चतुर्थप्रहरकर्तव्यम् , दशधासामाचारीस्वरूपम् -श्लो० १०३/१०४/१०५॥] [६४५ इदानीं शेषचतुर्थप्रहरकर्त्तव्यमाह -
ततः स्वाध्यायकरणं, यावत् प्राभातिकक्षणम् ।
इत्येवं दिनचर्यायाश्चरणं शुभयोगतः ॥१०३॥ 'ततो' वैरात्रिककालग्रहणानन्तरं 'स्वाध्यायकरणं' प्राग्वदन्वयः, तस्यावधिमाह - 'प्राभातिकक्षणं' प्राभातिककालग्रहणवेलां यावत् , तदवधिरित्यर्थः, अयं च स्वाध्यायस्तुर्यप्रहरे जागरणानन्तरं कायोत्सर्गकरणादिविधिपूर्वकः पूर्वं दिनचर्याप्रारम्भे उक्त एव, इह तु आद्यन्तक्रियानुसन्धानार्थं स्मारित इति न पौनरुक्त्यं न वा नवो विधिरित्यवसेयम् । प्राभातिककालश्चोपाध्यायादेः संदिशाप्य ग्राह्यस्ततो गुरवो जाग्रतीत्यप्युक्तमेव ।
इदानीं प्रतिदिनक्रियामुपसंहरन्नाह –'इत्येव'मित्यादि 'इतिः' समाप्तौ ‘एवम्' उक्तप्रकारेण 'दिनचर्यायाः' अहोरात्रिकाचरणायाः 'चरणं' सापेक्षयतिधर्मो भवतीति प्रकृते योजना, तच्चाशुभयोगतोऽपि स्यादित्यत आह -'शुभयोगत' इति शुभाः - प्रशस्ता: योगा मनोवाक्कायास्तस्माद्धेतुभूतात् शुभयोगैर्हेतुभूतैर्दिनचर्याचरणं यतिधर्म इति भावः । इत्थं च यतिदिनचर्याप्रतिपादनेन तदङ्गभूतानि प्रतिलेखनापिण्डोपध्यनायतनलक्षणानि चत्वार्योघसामाचारीद्वाराणि व्याख्यातानि शेषाणि चातिचारालोचनशुद्धिरूपाणि त्रीणि तद्द्वाराणि यथास्थानं दर्शयिष्यन्त इत्यौघिकसामाचारीक्रमः ॥१०३।। साम्प्रतं दशधापदविभागसामाचारीस्वरूपदर्शनायाह -
इच्छामिच्छातथाकारा, गताऽवश्यनिषेधयोः । आपृच्छा प्रतिपृच्छा च, छन्दना च निमन्त्रणा ॥१०४॥ उपसंपच्चेति जिनैः, प्रज्ञप्ता दशधाभिधा ।
भेदः पदविभागस्तु , स्यादुत्सर्गापवादयोः ॥१०५॥ युग्मम् । अमुना प्रकारेण 'जिनैः"दशधाभिधा' दशधाख्या सामाचारी प्रज्ञप्ता' प्ररूपिता, सा च यथा इच्छे'त्यादि कारशब्दोऽत्र प्रयोगाभिधायी सचेच्छादिशब्देषु त्रिषु प्रत्येकमभिसम्बध्यते तत इच्छामिच्छातथेत्येषां श्रद्धार्थव्यलीकार्थावैतथ्यार्थानांशब्दानां कारः -करणं यथास्वविषयं प्रयोग इच्छामिथ्यातथाकार इति समासार्थः, अवयवार्थस्त्वयम् -एषणमिच्छा करणं कारः इच्छया बलाभियोगमन्तरेण करणं इच्छाकारः, इच्छाक्रियेत्यर्थः ।
१. C. संशो० । तदावधेरिति-P.C. मूल ॥ २. “संहरंस्तस्या एव समुदिताया आचरणे सापेक्षयतिधर्मं दृढयन्नाह-C. मूल ॥ ३. L.P. | शुभयोगत इति-मु० C. नास्ति ॥ ४. तुलाआवश्यकहारिभद्रीया वृत्तिः प० १७२ तः ॥
D:\new/d-3.pm53rd proof