________________
६४४]
[धर्मसंग्रह:-तृतीयोऽधिकारः "अब्भुज्जअं विहारं, भुवणुद्धारं च तइअजामंमि । चिंतिंति जागरंता, झायंति गुरू तहा तत्तं ॥१॥ [य.दि./३७१] गुरुथेरबालपमुहा, निअनिअसमयंमि थोवकयनिद्दा । भावेण वि जग्गंता, ठवंति हिअए इमं सम्मं ॥२॥ [ य.दि./३७२] निव्वाणपुररहेहिं, एमाइमणोरहेहिं धन्नाणं ।। जग्गंताणं जामिणिपच्छिमजामो समणुपत्तो" ॥३॥ [ य.दि./३८४] इति ॥१०१। इदानीं तुर्ययामविषयं यत् कर्त्तव्यं तदर्शयन्नाह -
प्राप्ते चतुर्थयामे तु , विश्रामणकृतिर्गुरोः ।
स्थविराद्यैर्जागरित्वा, तत्र वैरात्रिकग्रहः ॥१०२॥ 'चतुर्थयामे' तुर्यप्रहरे ‘प्राप्ते' उपस्थिते तुशब्दः पूर्वस्माद्विशेषणार्थः, 'स्थविराद्यैः' स्थविरप्रमुखैर्बालवृद्धादिभिरपि 'जागरित्वा' निद्रां त्यक्त्वा 'गुरोः' आचार्यस्य 'विश्रामणकृतिः' विश्रामणाकरणम् , तथा 'तत्र' चतुर्थयामे वैरात्रिकस्य' कालविशेषस्य 'ग्रहो' ग्रहणम् , अन्वयस्तूभयत्रापि प्राग्वत् , गुरवश्च तदा स्वपन्तीत्यनुक्तमपि ज्ञेयम् । तदुक्तमोघनियुक्तिवृत्तौ -
"ताहे तइअपहरे अइक्वंते सो कालपडिलेहगो आयरिअं पडिसंदिसावेत्ता वेरत्तिअं कालं गेण्हइ, आयरिओऽवि कालस्स पडिक्कमित्ता सोवइ, ताहे जे सोइअल्लया साहू आसि ते उठेऊण वेरत्तिअं सज्झायं करेंति जाव पाभाइअकालग्गहणवेला जाया । ततो एगो साहू उवज्झायस्स वा अण्णस्स वा संदिसावेत्ता पाभाइकालं गेण्हति" [गा० ६६०वृ.] इति ।
दिनचर्यायामप्युक्तम् - "वीसामणं सगुरुणो, कुणंति जग्गंति तयणु थेराई । वेरत्तिअंपि कालं, गिज्झिअ कुव्वंति सज्झायं" ॥१॥[ य.दि./३८५] इति ॥१०२॥
१. P. संशो० यतिदिनचर्यायाम् [क्रमाङ्क २६२९] । अब्भुज्जुअं-मु० C.P. मूल यतिदिनचर्यायाम् [२६१६ क्रमाङ्के] ॥ २. भवणुद्धारं-यतिदिनचर्यायाम् २६२९ क्रमाङ्के । भवणद्धारंयतिदिनचर्यायाम् २६१६ क्रमाङ्के ।। ३. आयरिअस्स-इति ओघनियुक्तिवृत्तौ ।। ४. P.C. ओघनियुक्तिटीकायाम् । वा-मु० नास्ति ।।
D:\new/d-3.pm53rd proof