________________
द्वितीय-तृतीयप्रहरयोः स्थविरकर्तव्यम् -श्लो० १००/१०१॥]
[६४३ 'ग्रहणं' शुद्धतयोपादानम् , अन्वयस्तूक्त एव, अयं भावः -सूत्रार्थचिन्तनया द्वितीयां पौरुषी निर्वाह्य तृतीयप्रहरप्रारम्भे च वृषभा एवोपाध्यायादीनां संदिशाप्य अर्द्धरात्रिककालं गृह्णन्ति, शेषैस्तदानीं सुप्तत्वात् । यदुक्तं दिनचर्यायाम् -
"थेरा बिइअंजाम, सुत्तत्थं भावणाइ नीसेसं ।
अइवाहिअ थिरहिअया, पत्ते तइअंमि जामंमि ॥१॥[ य.दि./३६७] गिण्हंति अद्धरत्तिअ-कालं गुरुणो तओ विउज्झंति ।
पुव्वुत्तेणं विहिणा, थेरा निदं पकुव्वंति" ॥२॥[ य.दि./३६८ ] इति ॥१००।। इदानीं तृतीयप्रहरविषयं यत् कर्त्तव्यं तत्प्रतिपादयन्नाह -
ततोऽवबोधश्च गुरोस्तेषां च शयनं तथा ।
उद्वर्त्तनादियतना, सन्मनोरथचिन्तनम् ॥१०१॥ 'ततः' अर्द्धरात्रिककालग्रहणानन्तरं 'गुरोः' आचार्यस्य 'अवबोधो' जागरणं 'तथा' 'तेषां च' स्थविराणां 'शयनं' स्वापः, उभयत्राप्यन्वयः प्राग्वदेव, गुरोर्जागरणं स्थविराणां च शयनं रात्रितृतीयप्रहरकृत्यमितिभावः । तत्राप्ययं विधिः कालं गृहीत्वा आचार्यमुत्थापयन्ति, ततो वन्दनकं दत्त्वा शुद्धः काल इति पठन्ति, गुरवश्च तहत्ति त्ति, ततस्ते स्वपन्ति, आचार्यश्च द्वितीयमुत्थाप्य कालं प्रतिचारयति, ततः सूत्रार्थं चिन्तयति, यावद्वैरात्रिककालसमयः, अशुद्ध त्वर्द्धरात्रिके प्राक्शुद्धं प्रादोषिकमेव प्रवेद्य स्वाध्यायं कुर्वन्ति, एवमग्रे वैरात्रिकेऽप्यशुद्धे पूर्वशुद्धमर्द्धरात्रिकं प्रवेद्य स्वाध्यायं कुर्वन्ति, प्राभातिके चाशुद्धे तमेव निवेद्य स्वाध्यायं कुर्वन्तीत्यपवादः । ___इदानीं निद्रामोचने विधिमाह –'उद्वर्त्तनादी'त्यादि, उद्वर्त्तनम् -एकपाद्यदन्यपार्वे भवनम् , आदिशब्दात् परिवर्तनाकुञ्चनादिग्रहः, तत्र यतना शरीरसंस्तारकप्रमार्जना-रूपा। उक्तं च दिनचर्यायाम् -
"उव्वत्तणपरिअत्तणपमुहं जइणो कुणंति जइ तत्तो।
पडिलेहयंति पढम, सरीरयं तयणु संथारं" ॥१॥ [ य.दि./३६९] इति । तथा 'सन्मनोरथानाम् , उद्यतविहारविशेषसूत्राध्ययनाद्यभिलाषाणां चिन्तनं - मनसि करणम् । उक्तं च तत्रैव -
१. सुत्तत्थविभा' इति यतिदिनचर्यायाम् [२६१६, २६२९ क्रमाङ्कयोः] || २. यतिदिनचर्यायाम्। अइवाइअ-मु० । अहवाहिअ-P.C. ॥ ३. P. । तथा-मु० C. नास्ति ॥ ४-५. L.P. संशो० । प्रवेदयित्वा-मु० C.P. मूल ।। ६. L.P. संशो० । निवेदयित्वा मु० C.P. मूल ॥
D:\new/d-3.pm53rd proof