SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [ धर्मसंग्रहः - तृतीयोऽधिकारः गुरुभिः–आचार्यैर्वितीर्णानि प्रकाशप्रत्युपेक्षणानि जीर्णत्वादचौरहरणीयानि सप्त वस्त्राणि उत्कर्षतो गृह्णाति । इदमेव स्पष्टयति ६४२ ] — 44 'तिण्णि कसिणे जहण्णे, पंच य दढदुब्बलाई गिहिज्जा । सत्त य परिजुन्नाई, एयं उक्कोसगं गहणं" ॥१॥ [ बृ.क.भा./३९८६ ] कृत्स्नानि नाम घनमसृणानि यैरन्तरितः सविता न दृश्यते शेषं सुगमम्] इत्युक्तः शयनविधिः । दिनचर्यायामप्येवम् - "सक्कत्थयं भणित्ता, संथारुत्तरपट्टगं च पेहित्ता । जोडित्ता जाणुवीरं, ठाविअ भूमिं पमज्जति ॥ १ ॥ [ य.दि./३५७ ] तं तत्थ अत्थरित्ता, करजुअलं इत्थ निसिअ पभणंति । अणुजाणह निस्सीहि, नमो खमासमणपुज्जाणं ॥२॥ [ य.दि./३५८ ] ठाऊणं संथारे, पुत्तिं पेहिंति तिन्नि वाराओ । नवकारं सामाइअमुच्चारिअ वामपासेणं ॥ ३ ॥ [ य.दि./३५९ ] उवहाणीकयबाहू, आकुंचिअ कुक्कुडि व्व दो पाए । अतरंता सुपमज्जिअ, भूमिं विहिणा पसारंति ॥४॥ [ य.दि./३६० ] जमे हुज्ज पाओ, इमस्स देहस्स इमाइ रयणीए । आहारमुवहिदेहं, सव्वं तिविहेण वोसिरिअं ॥५॥ [ य. दि./३६५ ] इच्चाइ चिंतयंता, निद्दासुक्खं करेंति खणमेत्तं । तत्थ वि निब्भरनिद्दं, पमायभीरू विवज्जंति" ॥६॥ [ य. दि. / ३६६ ] इति ॥९९॥ अथ द्वितीयप्रहरे सर्वेऽपि स्वपन्ति उताहो केचिज्जागरन्त्यपीति जिज्ञासायां पुरुषविशेषाश्रयं द्वितीयतृतीयप्रहरगतं विध्यन्तरमाह - स्थविराणां द्वितीयेऽपि, यामे सूत्रार्थभावनम् । अर्द्धरात्रिककालस्य, तृतीये ग्रहणं च तैः ॥१००॥ ‘स्थविराणां’ वृषभगीतार्थानां 'द्वितीयेऽपि' न केवलं प्रथम एवेत्यपिशब्दार्थः 'यामे' प्रहरे ‘सूत्रार्थस्य' सूत्रप्रमेयस्य 'भावनं' चिन्तनम्, अन्वयः प्राग्वदेव । 'तृतीये च' तृतीयप्रहरे प्राप्ते 'चः' समुच्चये 'तै: ' स्थविरैरेव 'अर्द्धरात्रिककालस्य' द्वितीयकालस्य १. P. बृहत्कल्पवृत्तौ । `न्तर्हितः - मु० C. ॥ २. तिविहं - इति यतिदिनचर्यायां [२६१६, २६२९ क्रमाङ्कयोः] ॥। ३. यतिदिनचर्यायाम् [२६१६, २६२९ क्रमाङ्कयोः ] | मुक्खं - मु० P.C. ॥ D:\new/d-3.pm5\ 3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy