SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ शयनविधिः - श्लो० ९९ ॥] [ ६४१ प्रमार्जनादि कुर्यादित्येवं प्रमाणयुक्तायां वसतौ वसतां विधिरुक्तः । यदा पुनः क्षुल्लिका वसति: तदा पुरतो हस्तेन परामृशति पश्चात् पादौ प्रमृज्य न्यस्यति, ततश्चैवं यतनया बाह्यतो निर्गच्छति, यदि च तत्र स्तेनभयं तर्हि द्वौ निर्यातः, एको द्वारे तिष्ठत्यन्यः कायिकां व्युत्सृजतीति। श्वापदभये तु त्रयस्तत्रैको द्वारे तिष्ठति, द्वितीयस्तं कायिकां व्युत्सृजन्तं प्रतिजागर्त्ति, एवं कायिकीं व्युत्सृज्य संस्तारकम् आगत ईर्यापथिकां प्रतिक्रान्तः सन् जघन्यतोऽपि गाथात्रयं गणयति, तथाऽशक्तस्त्वन्यथापि स्वपित्येव । तत्र चोत्सर्गतः साधुरप्रावरणः स्वपिति, तथाऽशक्तस्तु क्रमेणैकं द्वौ त्रीन् वा कल्पान् प्रावृणोति, तथापि शीतत बाह्यतः कायोत्सर्गं कृत्वाऽतिशीतव्याप्तो मध्ये प्रविष्टो निवातमिति मन्यते ततः क्रमेणैकादिकल्पान् गर्दभदृष्टान्तेन प्रावृणोति, स चायं – समारोपितमनुरूपं भारं वोढुमनिच्छतो गर्दभस्य शिरस्यन्यो भार आरोप्यते स्वयं चारुह्यते ततः स्तोकं गते स्वयमुत्तरति ततो गर्दभो जानाति उत्तीर्णो मम भारइति शीघ्रं याति ततोऽप्यन्यभारापनयने शीघ्रतरं याति एवं साधुरपीति । अपवादेन तु यथा समाधिर्भवति तथा कर्त्तव्यम् । यदुक्तमोघनिर्युक्तौ - "अतरंतो व निवज्जे, असंथरंतो व पाउणे इक्कं । गद्दहदिट्टंतेणं, दो तिन्नि बहू जह समाही" ॥१॥ [ ओ.नि./२०९] ‘अतरंतो व निवज्जे’त्ति अशक्नुवन् गाथात्रयगणनं विना शेते इति पूर्वगाथार्थशेषः । [तथा बृहत्कल्पेऽपि - 44 'अप्पा असंथरंतो, निवारिओ होइ तीहिं वत्थेहिं । गिves गुरुविदिणे, पयासपडिलेहणे सत्त ॥१॥ [ बृ.क.भा./३९८५ ] व्याख्या –आत्मा –शरीरं स शीतादिना न संस्तरति तदा त्रिभिर्वस्त्रैर्निवारितो भवति। अथ तानि परिजीर्णानि (तैतो) न त्रिभिः शीतं निवारयितुं पार्यते ततश्चाह - १. L.P. संशो० । कार्यमित्येवं - मु० C. P. मूल ॥ २. P. C. । द्वितीयस्तदा कायिकां व्युत्सृजति (तृतीयस्तु) प्रतिजागर्त्ति—मु० । " श्वापदभये सति त्रयः साधव उत्तिष्ठन्ति तत्रैको द्वारे तिष्ठति अन्यः कायिकं व्युत्सृजति अन्यस्तत्समीपे रक्षपालस्तिष्ठति । ‘जति य चिरं'ति यदि च चिरं तस्य व्युत्सृजतो जातं ततो योऽसौ द्वारे व्यवस्थितः साधुः सोऽन्यं द्वारे स्थापयित्वा साधुं पुनश्चासौ व्युत्सृजन्तं 'पडिअरति’त्ति प्रतिजागति" इति ओघनियुक्तिवृत्तौ गा० २०७ । ३. C. । गिण्हेइ - मु० P. I गिण्हति-इति बृ.क.भाष्ये ॥ ४. L.P. । व्याख्या - मु० C. नास्ति ॥ ५. P. बृहत्कल्पवृत्तौ । अथवामु० C. ॥ ६. ततो - P. C. नास्ति, बृहत्कल्पवृत्तावस्ति ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy