SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ शयनविधिः- श्लो० ९९॥] [६३९ सा० अं० पा० अं० सा० २४ २० ८ २० २४ ० - ० - ० अत्रोक्तव्याख्याने साधूनां मिथो द्विद्विहस्तप्रमाणायामबाधायामन्तरे बहुशून्यत्वाद् बलात् सागारिकशयनं भवतीत्यन्यथा व्याख्यायते, साधुशरीरेण हस्तो रुद्ध्यते, साधुशरीरप्रमाणसंस्तारकस्य पात्राणां चान्तरं विंशतिरङ्गुलानि, अत्र चोर्णामयः संस्तारकोऽष्टाविंशत्यङ्गलप्रमाण एव द्रष्टव्यः, किं तु साधुना शरीरेण चतुर्विंशत्यङ्ग्लानि रुद्धानि, अन्यानि उर्णामयसंस्तारकसम्बन्धीनि यानि चत्वार्यङ्ग्लानि तैः सह यानि विंशत्यङ्गलानि तत्परतः पात्रकाणि भवन्ति, तानि चाष्टाङ्गलानि रुणद्धि, ततः पात्रकस्य द्वितीयसाधोश्चान्तरं विंशत्यङ्गलानि, एवं सर्वेऽपि ते त्रिहस्ताः । स्थापना चेयम् -अत्र च हस्तद्वयमबाधा साधुशरीराद् यावदन्यसाधुशरीरं तावद् द्रष्टव्यमिति, तत्र च शिर:प्रदेशे कुड्यतो हस्तमात्रं पादान्ते चापि हस्तमात्रं गमनमार्ग मुक्त्वा स्वपन्तीति प्रदीर्घायां वसतौ स्वापविधिः । चतुरस्रायां तु कुड्याद्धस्तत्रयं मुक्त्वा स्वपन्ति, तत्र कुड्यतो हस्तमात्रेण भाजनानि स्थाप्यन्ते, तानि च हस्तमात्रे पादप्रोञ्छने क्रियन्ते, ततो हस्तमात्रं व्याप्नुवन्ति, भाजनसाधोश्चान्तरालं हस्तमात्रमेव मुच्यते, ततः साधुः स्वपिति, एवमनया भङ्ग्या स्वपतां तिर्यक् साधोः साधोश्चान्तरालं हस्तद्वयं द्रष्टव्यम् , इदं च प्रमाणोपेतवसत्यपेक्षं ज्ञेयम् , क्षुल्लिकायां तु उपशीर्षकाणां मध्ये भाजनानि क्रियन्ते, यदि च भूर्गतॊपेता ततस्तस्यां पात्रकाणि पुञ्जीक्रियन्ते, तत्र प्रासुकानि अल्पकर्माणि च उपरि पुञ्जीक्रियन्ते, माङ्गलिकत्वात् तेषाम् , अथातिसङ्कटत्वाद् वसतेभूमौ नास्ति स्थानं पात्रकाणाम् , ततश्च औपग्रहिको देवरको यवनिकार्थं गच्छसाधारणो गृहीतस्तेन कीलिकादाववलम्ब्यन्ते । तदुक्तम् - "उस्सीसभायणाई, मज्झे विसमे अहाकडा उवरिं। उवगहिओ जो दोरो, तेण उ वेहासि लंबणया" ॥१॥[ओ.नि./२३२] १. तुला-ओघनियुक्तिटीका गा० २२७ ॥ २. L.P. ओघनियुक्तिवृत्तिः गा० २२७ । साधुशरीरं तावद् द्रष्टव्यमिति, तत्र च शिरःप्रदेशे कुड्य -मु० C. नास्ति ॥ ३. यो द इति ओघनिर्युक्तेर्वृत्तौ अवचूर्यां च ।। ४. ओवग्गहिओ दो ओघनि० ।। D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy