SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ६३८] [धर्मसंग्रहः-तृतीयोऽधिकारः तत्राचार्याणां निवाता प्रवाता मिश्रा चेति संस्तारकभूमित्रयम् , शेषाणां त्वेकैका, तत्र विस्तीर्णायां चौरादिप्रवेशवारणाय पुष्पावकीर्णाः स्वपन्ति, क्षुल्लिकायां मध्ये पात्राणि मुक्त्वा मण्डल्याः पार्श्वे स्वपन्ति, प्रमाणयुक्तायां तु पङ्क्त्या स्वपन्ति । तदुक्तमोघनिर्युक्तौ - "संथारगभूमितिअं, आयरिआणं तु सेसगाणेगा । रुंदाए पुप्फइण्णा, मंडलिआआवली इअरे" ॥१॥[ओ.नि./२०२] अत्र क्षुल्लिकाप्रमाणयुक्तयोरयं विधिः - "संथारगगहणाए, वेंटिअउक्खेवणं तु कायव्वं । संथारो घेत्तव्वो, मायामयविप्पमुक्केणं" ॥१॥[ओ.नि./२०३] | सा० अं० पा० अं० अं० पा० अं० सा० २८ २० २४ २४ २४ २४ २० २८ ० - ० - - ० - ० स्थविरादिदत्तसंस्तारकभूमौ यथारत्नाधिकतया क्रमेण सर्वैरपि स्वस्वोपधिविण्टलिकोत्क्षेपणं कार्यं येन भूमिभागो ज्ञायते, सुखेन च विभजितुं शक्यते इति भावार्थः । तत्र च विभक्तायां भुवि प्रत्येकं साधो संस्तारकस्त्रिहस्तबाहल्यो भवति, तथाहि - ऊर्णामयः संस्तारकोऽष्टाविंशत्यङ्गलप्रमाण, संस्तारकपात्रयोरन्तरे च विंशतिरङ्गलानि भवन्ति, ततश्च भाजनानि हस्तप्रमाणे पादप्रोञ्छने स्थाप्यन्ते इति हस्तत्रयम् एकैकस्य साधोः संस्तारकबाहल्यम् । साधूनां मिथश्चान्तरं द्वौ द्वौ हस्तौ भवतः साधुश्चात्र त्रिहस्तसंस्तारकप्रमाणो ग्राह्यः । स्थापना तदुक्तम् - "तम्हा पमाणजुत्ता, एक्केक्कस्स उ तिहत्थसंथारो । भायणसंथारंतर तह वीसं अंगुला हुंति ॥१॥[ओ.नि./२२६ ] मज्जारमूसगाइ अ, वारए न वि अ जाणुघट्टणया । दोहत्थे अ अबाहा, निअमा साहुस्स साहुस्स" ॥२॥[ओ.नि./२२७ ] इति । १. स्थापना च हस्तलिखितप्रत्यनुसारं (P.C.) संशोधिता । मु० मध्ये-अन्यथा दृश्यते ॥ २. तुला-ओघनियुक्तिटीका गा० २२६-७ ॥ ३. L.P. । एकैकस्य साधोः संस्तारकबाहल्यं-मु० C. नास्ति ।। ४. L.P. । स्थापना मु० C. नास्ति ।। ५. जह-ओघनिर्युक्तौ[गा० २२६] तवृत्तौ च [गा० २२७] ॥ ६. साहूओ-इति ओघनिर्युक्तौ ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy