________________
शयनविधिः -श्लो० ९९॥]
[६३७ "देवसिअपडिक्कमणे, कयंमि गिण्हंति तयणु कयकरणा।
तारातिअसंपिक्खणसमए पाओसिअं कालं" ॥१॥[य.दि./३४९ ] इति । कालग्रहणविधिश्च योगविधितो ज्ञेयः । ततः' कालग्रहणानन्तरं प्रादोषिककाले शुद्ध इत्यर्थः 'कालिकसूत्राणां' एकादशाङ्गादीनाम् आदिशब्दादुपाङ्गाद्युत्कालिकादीनामपि 'अध्ययनादि' पठनपाठनादि सापेक्षयतिधर्मो भवतीति प्राग्वदन्वयः । तच्चाविधिनापि भवतीत्यत आह -'यथाविधि' विधिमनतिक्रम्य यथा भवति तथा, स च प्राग्दर्शित एव । अशुद्धे तु काले उत्कालिकं निर्युक्त्यादि वा गणयन्ति शृण्वन्ति ध्यायन्ति वा । तदुक्तं दिनचर्यायाम् -
"अह वाघाइअकाले, सुद्धमि पढंति कालिअं सुत्तं । पुव्वगहिअंगणंति, अन्नह अन्नं पि अत्थं वा ॥१॥[ य.दि./३५०] कालिअसुअस्स कालो, भणिओ अज्झयणगणणसमयंमी।
दिवसस्स पढमपच्छिम-जामाए वा तिजामाए" ॥२॥[य.दि./३५१] ॥९८॥ इदानी कर्त्तव्यान्तरेणापि प्रथमपौरुषीनिर्गमनम् , तन्निर्गमने च यत्कर्त्तव्यं तदाह -
साधुविश्रामणाद्यैश्च, निशाद्यप्रहरे गते ।
गुर्वादेशादिविधिना, संस्तारे शयनं तथा ॥९९॥ साधवः-आचार्य-ग्लान-प्राघुर्णकादयस्तेषां विश्रामणं-श्रमापयनयनकरणम् , आदिशब्दात् सम्बाधनादिग्रहस्तैः कर्त्तव्यैः, चकारात् प्रागुक्तस्वाध्यायादिना निशाया - रात्रेराद्ययामे -प्रथमप्रहरे ‘गते' निष्ठां प्राप्ते सति संस्तारे' वक्ष्यमाणलक्षणे शयनं' स्वापः, सापेक्षयतिधर्मो भवतीत्यन्वयः। तच्चाविधिनापि भवतीत्यत आह -'गुर्वादेशादिविधिना' इति गुर्वादेशो -गुरोः सन्दिशापनं तदादिविधिना -तदादिविधिपूर्वकम् । तदुक्तं दिनचर्यायाम् -
"सज्झायझाणगुरुजण-गिलाणविस्सामणाइकज्जेहिं । जामंमि वइक्वंते, वंदिअ पेहति मुहपोत्तिं ॥१॥[ य.दि./३५४] पढमंमि खमासमणे, राइअसंथारसंदिसावणयं ।
पभणंति पुणो बिईए, राइअसंथारए ठामो" ॥२॥[य.दि./३५५ ] संस्तारकश्चैकैकस्य साधोर्बाहल्यतस्त्रिहस्तप्रमाण: कर्त्तव्यः, इदं च प्रमाणयुक्तविस्तीर्णवसत्यपेक्षं वचः, यतो वसतिर्विस्तीर्णा, क्षुल्लिका, प्रमाणयुक्ता चेति त्रिविधा,
१. अन्वयः P॥
D:\new/d-3.pm53rd proof