SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 'पाक्षिकश्रमणक'सूत्रं सावचूरिकम् -श्लो० ९८॥] [६३५ वन्दित्वा इत्याह -युष्माकं पादमूले, विहरता मया ये केचन बहुदिवसपर्यायाः साधवः दृष्टाः, 'सामा०' जवाबलक्षयादेकत्रवासिनः, 'वस०' नवकल्पविहारवन्तः, अत एव ग्रामादनन्तरो ग्रामः अनुग्रामः तं 'दूइ०'-गच्छन्तः, वाशब्दाः समुच्चये, एतेषु मध्ये इति गम्यम् , रात्निका आचार्याः, 'संपु०'-संप्रश्नयन्ति, मया वन्दिताः सन्तो भवतां कुशलवार्तामिति, अवमरात्निकाः भवतः प्रतीत्य लघुतरपर्याया आचार्या एव वन्दन्ते, भवतः कुशलादि तु प्रश्नयन्त्येव, आर्यकाः सामान्यसाधवो वन्दन्ते, एवं आर्यिकाः साध्व्यः, श्रावकाः श्राविकाच, तथाऽहमपि निःशल्यो निष्कषायः तान् वन्दे, यूयमपि वन्दध्वम् , एवं शिष्येणोक्तः गुरुः प्राह-अहमपि तानि युष्मद्वन्दितानि चैत्यानि वन्दे, अन्ये भणन्ति–'अहमवि वन्दावेमि चेइआई' इति पाठः. अहमपि वन्दापयामि चैत्यानि यथा -अमुकनगरे युष्मत्कृते चैत्यानि नतानि तानि यूयमपि वन्दध्वमिति २॥ __ तत आत्मानं निवेदयितुकामा भणन्ति - "इच्छामि खमासमणो ! उवट्ठिओऽहं तुब्भण्हं संतिअं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अक्खरं वा पयं वा गाहं वा सिलोगं वा (सिलोगद्धं वा) अटुं वा हेउं वा पसिणं वा वागरणं वा तुब्भेहिं चिअत्तेहिं दिन्नं मए अविणएण पडिच्छिअंतस्स मिच्छा मि दुक्कडं" ॥ 'आयरिअसंतिअं' इति गुरुवनचम् । इच्छामि वक्ष्यमाणम् उपस्थितोऽहम् , आत्मनिवेदनाय इति गम्यम् , युष्माकं सत्कं - युष्मदीयमिदं सर्वं यदस्मत्परिभोग्यं यथाकल्पं -कल्पानतिक्रान्तं स्थविरकल्पोचितं कल्पनीयमित्यर्थः, वस्त्रादि प्रतीतं नवरं पादप्रोञ्छनं रजोहरणम् , 'अटुं वेति' अर्थः सूत्रस्याभिधेयः प्राकृतत्वान्नपुंसकनिर्देशः, प्रश्नः -पण्डिताभिमानी परो माननिग्रहाय यत् प्रश्नयति, व्याकरणं तदुत्तरम् , वाशब्दाः समुच्चयार्थाः, एवं वस्त्रादिनिवेदनद्वारेणात्मानं निवेद्य युष्माभिरेवेदं मे दत्तं इत्यावेदयन् तद्ग्रहणे चाविनयं क्षमयन्नाह -युष्माभिः प्रीत्या दत्तं मयाऽविनयेन प्रतीप्सितम् , शेषं स्पष्टम् । गुरुराह-पूर्वाचार्यसत्कमेतत् किं ममात्रेति, गर्ववर्जनार्थं गुरुभक्तिख्यापनार्थं चेदम् ३॥ अथ यच्छिक्षां ग्राहितास्तमनुग्रहं बहुमन्यमानाः शिष्याः प्राहुः - १. संशो० पाक्षिकसूत्रवृत्तिः प० ७४ B चैत्यादि-मु० C. || २. P.C. | चिअत्ते(ण)-मु० । चिअत्तेणं-इति पाक्षिकसूत्रवृत्तिग्रन्थे ॥ ३. L.P. पाक्षिकसूत्रवृत्तिः । प्रश्न:-मु० C. नास्ति । ४. प्रतीक्षितम्-इति पाक्षिकसूत्रवृत्तौ ।। D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy