SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ६३४] [धर्मसंग्रहः-तृतीयोऽधिकारः __"इच्छामि खमासमणो ! पिअं च मे जं भे ! हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरिअउवज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेण भे दिवसो पोसहो पक्खो वइक्कंतो अन्नो य भे ! कल्लाणेणं पज्जुवट्ठिओ सिरसा मणसा मत्थएण वंदामि ॥ 'तुब्भेहिं समम्', इति गुरुवचनम् । 'इच्छामि' अभिलषामि, वक्ष्यमाणं क्षमयितुमितियोगः, अथवा इच्छामि हे क्षमाश्रमणाः ! वक्ष्यमाणम् , कुतोऽपि कारणादप्रियमपि किञ्चिदिष्यत इत्यत आह –'प्रियं च' अभिमतं मम यद्भवतां 'हृष्टानां' नीरोगाणां 'तुष्टानां' तोषवताम् अल्पातङ्कानाम् अल्पशब्दस्याभावपरत्वाद्रोगमुक्तानाम् अभग्नसंयमयोगानां सुशीलानाम् –अष्टादशसहस्रशीलाङ्गोपेतानाम् [सुव्रतानां]-शोभनपञ्चमहाव्रतानाम् आचार्योपाध्यायानां ज्ञानादिनाऽऽत्मानं भावयतां बहुशुभेन–अत्यर्थं श्रेयसा ईषदूनश्रेयसा वा सर्वथा शुभस्यासम्भवात् 'भे' इत्यामन्त्रणे भो भवन्तः ! दिवसो -दिनं किंविधः?-पोषधः-पर्वरूपः अन्यश्च पक्ष इति वर्त्तते, भवतां कल्याणेन शुभेन युक्त इति गम्यम् , पर्युपस्थित:-प्रक्रान्त आरब्ध इत्यर्थः । पुष्यमाणवा इव मङ्गलमभिधाय प्रणाममाहुः-शिरसा मनसा उपलक्षणाद्वाचेति ज्ञेयम् , मत्थएण वंदामीति नमस्कारवचनम् अव्युत्पन्नं समयप्रसिद्धं ज्ञेयम् , अतः शिरसेत्यभिधाय मस्तकेनेत्युक्तं न दुष्टम् । अत्राचार्यः प्राह –'तुब्भेहिं' युष्माभिः सार्धं सर्वमेवैतत् सम्पन्नमित्यर्थः १॥ अथ चैत्यसाधुवन्दापनं निवेदयितुकामा भणन्ति - "इच्छामि खमासमणो ! पुचि चेइआई वंदित्ता नमंसित्ता तुब्भण्हं पायमूले विहरमाणेणं जे केइ बहुदेवसिआ साहुणो दिट्ठा सामाणा वा वसमाणा वा गाणाणुगामं दूइज्जमाणा वा रायणिआ संपुच्छंति ओमरायणिआ वंदंति अज्जया वंदंति अज्जिआओ वंदंति सावया वदंति साविआओ वंदंति अहं पि निस्सल्लो निक्कसाओ त्तिकट्ट सिरसा मणसा मत्थएण वंदामि" 'अहमवि वंदामि चेइआई' इति गुरुवचनम् । इच्छामि हे क्षमाश्रमणाः ! चैत्यवन्दापनं साधुवन्दापनं च भवतां निवेदयितुमिति वाक्यशेषः । पूर्वकाले-विहारकालात् चैत्यानि-जिनप्रतिमाः वन्दित्वा स्तुतिभिर्नत्वा नमस्कृत्य प्रणामतः सङ्घसत्वचैत्यवन्दनाद्येतदहं करोमीतिप्रणिधानयोगात् , क्व १. सुव्रतानां-मु० P.C. नास्ति । २. P.C. पाक्षिकसूत्रवृत्तिः । साहुणे-मु० ॥ ३. समाणा-इति पाक्षिकसूत्रवृत्तौ ।। ४. P.C. पाक्षिकसूत्रवृत्तिः । सङ्घसम्यक्त्व चैत्य० मु० ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy