________________
'पाक्षिक'सूत्रं सविवरणम् -श्लो० ९८॥]
[६३३ २२ देवेन्द्रोपपात: २३ वैश्रमणोपपात: २४ उत्थानश्रुतं २५ समुत्थानश्रुतं २६ नागपर्यावलिकाः २७ निरयावलिकाः २८ कल्पिकाः २९ कल्पावतंसिकाः ३० पुष्पिकाः ३१ पुष्पचूलिकाः ३२ (वृष्णिकाः ३३) वृष्णिदशा: ३४ आशीविषभावनाः ३५, दृष्टिविषभावनाः ३६ चारणभावनाः ३७ महास्वप्नभावनाः ३८ तैजसाग्निनिसर्गः ३९ शेषं० ॥
उक्तं कालिकश्रुतम् , तदभिधानाच्चावश्यकव्यतिरिक्तम् , तद्भणनाच्चाङ्गबाह्यमुक्तम् , साम्प्रतमङ्गप्रविष्टश्रुतोत्कीर्तनायाह -नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितम् , कालिकमित्यनुवर्तते । द्वादशाङ्गं गणिपिटकं भगवत् , तद्यथा-आचारः १ सूत्रकृतं २ स्थानाङ्गं ३ समवायः ४ विवाहप्रज्ञप्ति: ५ ज्ञाताधर्मकथा ६ उपासकदशा: ७ अन्तकृद्दशाः ८ अनुत्तरोपपातिकदशा: ९ प्रश्नव्याकरणं १० विपाकश्रुतं ११ दृष्टिवादः १२, सर्वस्मिन्नप्येतस्मिन् द्वादशाङ्गे गणिपिटके भगवति । शेषं० ॥
एतेषां सर्वेषां सिद्धान्तानां नामग्रहणमेव कथितम् , एतेषां भेदाः शास्त्राध्ययनोद्देशप्रमाणानि च ग्रन्थविस्तरभयान्नोदितानि, महाशास्त्रेभ्योऽवसेयानि, इत्युत्कीर्तितं सामान्यतोऽङ्गप्रविष्टं श्रुतम् ।
साम्प्रतं श्रुतदातृपालकेभ्यो नमस्कारम् आत्मीयप्रमादविषये मिथ्यादुष्कृतं चाह - नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं द्वादशानामङ्गानां समाहारो द्वादशाङ्गम् , किंवि०? गणि० गणी -आचार्यस्तस्य पिटकमिव -रत्नकरण्डक इव पिटकं गणिपिटकम् , सर्वार्थसारकोशभूतमित्यर्थः, भगवत् , ये चेदं सम्यग् -अवैपरीत्येन कायेन कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः -पुनः स्पृशन्ति -ग्रहणकाले विधिना गृह्णन्ति, पालयन्ति –पुनरभ्यासेन रक्षयन्ति, पूरयन्ति –मात्राबिन्द्वक्षरादिभिरध्येतृदोषादपरिपूर्णं पूर्ण कुर्वन्ति, तीरयन्ति - अविस्मृतम् जन्मपारं नयन्ति, कीर्त्तयन्ति -स्वनामभिः स्वाध्यायकरणतो वा संशब्दयन्ति, सम्यग् –यथावत् आज्ञया -तदुक्तार्थरूपया गुरुनियोगात्मिकया वा आराधयन्ति - तदुक्तक्रियाकरणतः फलदं कुर्वन्तीत्यर्थः, तेभ्योऽपि नम इति प्रक्रमः । यच्चाहं नाराधयामि - प्रमादतो नानुपालयामि, तस्य मिथ्या मे दुष्कृतमस्त्विति । अथ मङ्गलार्थं श्रुतदेवतास्तुतिमाह -"सुअदेवया०" ॥१॥ इति पाक्षिकसूत्रार्थलेशः।
अथ यथा राजानं पुष्यमाणवका अतिक्रान्ते मङ्गलकार्ये बहु मन्यन्ते यदुत'अखण्डितबलस्य तव सुष्टु कालो गतोऽन्योऽप्येवमुपस्थितः' एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसूत्रेण साधव आचार्यस्य कुर्वन्ति । तच्चेदम् –
१. वृष्णिकाः-L.P.C. पाक्षिकसूत्रवृत्तौ च नास्ति । २. तुला पाक्षिकसूत्रवृत्तिः प० ७३ तः ॥
D:\new/d-3.pm5\3rd proof