SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ६३२] [धर्मसंग्रहः-तृतीयोऽधिकारः अन्तः पक्षस्य यन्न वाचितं न पठितं न परिवर्तितं न पृष्टं नानुपालितं नानुप्रेक्षितं सति बले सति वीर्ये सति पुरुषकारपराक्रमे, बलं देहसम्भवम् , वीर्यमुत्साहसम्भवम् , पुरुषकारः पुरुषाभिमानः, स एव निष्पादितफलः पराक्रमः, विभक्तिव्यत्ययात् तदवाचितादिकम् आलोचयामः -गुरवे निवेदयामः, प्रतिक्रमामः निन्दामो गर्हामः पूर्ववत् , व्यतिवर्त्तयामः वित्रोटयामः विशोधयामः तच्छुद्धिं कुर्मः, अकरणतया - पनरकरणेन अभ्यत्तिष्ठामः -अभ्यपगच्छामः, यथार्हम -अपराधापेक्षया यथोचितं तप:कर्म -निर्विकृत्यादि पापच्छेदकत्वाद्वा प्रायश्चित्तं प्रतिपद्यामहे -अभ्युपगच्छामः, तस्य मिथ्या मे दुष्कृतं पूर्ववत् । ___ आवश्यकव्यतिरिक्तमाह -तदपि द्विविधं-कालिकमुत्कालिकं च, यदिह दिननिशाद्यन्तपौरुषीद्वय एवास्वाध्यायाभावे पठ्यते तत् कालेन निर्वृत्तं कालिकम् , यत् पुनः कालवेलापञ्चविधास्वाध्यायिकवर्जं पठ्यते तदुत्कालिकम् , अस्वाध्यायिकपञ्चकं च संयमघाति १ औत्पातिकम् - उल्कादि २ सादिव्यं-चन्द्ररविग्रहणादि ३ व्युग्रह ४ शरीर ५ रूपम् । अथोत्कालिकोत्कीर्तनायाह-नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितम अङबाह्यम उत्कालिकं भगवत् 'अङ्गबाह्यं' द्वादशाङ्ग्या अतिरिक्तम् , उत्कालिकम् उत्कालेन निर्वृत्तम् , भगवत् इति पूर्ववत् , तद्यथा -दशवैकालिकम् १ कल्पाकल्पिकम् २ क्षुल्लकल्पश्रुतम् ३ महाकल्पश्रुतम् ४ औपपातिकम् ५ राजप्रश्नीयम् ६ जीवाभिगम: ७ प्रज्ञापना ८ महाप्रज्ञापना ९ नन्दी १० अनुयोगद्वाराणि ११ देवेन्द्रस्तवः १२ तन्दुलवैचारिकम् १३ चन्द्रवेध्यकम् १४ प्रमादाप्रमादम् १५ पौरुषीमण्डलम् १६ मण्डलप्रवेशः १७ गणिविद्या १८ विद्याचरणविनिश्चयः १९ ध्यानविभक्तिः २० मरणविभक्तिः २१ आत्मविशुद्धिः २२ संलेखनाश्रुतम् २३ वीतरागश्रुतम् २४ विहारकल्पः २५ चरणविधिः २६ आतुरप्रत्याख्यानम् २७ महाप्रत्याख्यानम् २८ सर्वस्मिन्नप्येतस्मिन् अङ्गबाह्ये उत्कालिके शेषं० ॥ समुत्कीर्त्तितमुत्कालिकम् , अथ कालिकोत्कीर्तनायाह -उत्तराध्ययनानि १ दशाश्रुतस्कन्धः २ कल्प: ३ व्यवहार ४ ऋषिभाषितानि ५ निशीथो ६ महानिशीथः ७ जम्बूद्वीपप्रज्ञप्तिः ८ चन्द्रप्रज्ञप्तिः ९ सूर्यप्रज्ञप्तिः १० द्वीपसागरप्रज्ञप्तिः ११ क्षुल्लिका १२ विमानप्रविभक्तिः १३ महतीविमानप्रविभक्तिः १४ अङ्गचूलिका १५ वर्गचूलिका १६ विवाहचूलिका १७ अरुणोपपात: १८ वरुणोपपात: १९ गरुडोपपात: २० धरणोपपात: २१ वेलन्धरोपपात: १. P. संशो० । विद्याचरणविनिश्चयः आत्मविशुद्धिः मरणविशुद्धिः ध्यानविभक्तिः मरणविभक्तिः संलेखना मु० C.P. मूल । D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy