________________
'पाक्षिक सूत्र सविवरणम् -श्लो० ९८॥]
[६३१ चारणभावणाणं महासुमिणभावणाणं तेयग्गिनिसग्गाणं सव्वेसि पि एअंमि अंगबाहिरे कालिए भगवंते० शेषं०" ॥ __ "नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भगवंतं, तंजहा -आयारो सूयगडो ठाणं समवाओ विवाहपण्णत्ती णायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्हावागरणं विवागसुयं दिट्ठिवाओ, सव्वेसि पि एयंमि दुवालसंगे गणिपिडगे भगवंते० शेषं०" ॥
"नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भगवंतं तंजहा सम्मं काएण फासंति पालंति पूरंति सोहंति तीरंति किट्टंति सम्मं आणाए आराहंति अहं च नाराहेमि तस्स मिच्छा मि दुक्कडं" ॥
नमस्तेभ्य क्षमाश्रमणेभ्यः स्वगुरुभ्यस्तीर्थकरगणधरादिभ्यो वा यैरिदं वक्ष्यमाणं वाचितम् -अस्मभ्यं दत्तम् , सूत्रार्थतया विरचितं वा । षड्विधमवश्यकरणादावश्यकं षडध्ययनात्मकम् , भगवत् सातिशयाभिधेयसमृद्ध्यादि गुणयुक्तम् , तद्यथा -सामायिकं १ चतुर्विंशतिस्तवो २ वन्दनं ३ प्रतिक्रमणं ४ कायोत्सर्गः ५ प्रत्याख्यानम् ६ , सर्वस्मिन्नप्येतस्मिन् षड्विधे आवश्यके भगवति ससूत्रे सार्थे सग्रन्थे सनियुक्तिके ससंग्रहणीके, वस्तुनः सूचनामात्रकृतबीजस्वरूपम् सूत्रम् , वृत्तिटीकाभ्यां व्याख्यातोऽर्थः, अखण्डितसूत्रार्थोभयपाठो ग्रन्थः, विविधानुक्रमणिकापाठो विस्तरसहितो नियुक्तिः, बह्वर्थसङ्ग्राहिका सङ्ग्रहणी, एभिः पदैः सह बहुव्रीहिसमास: तस्मिन् , ये गुणा विरतिजिनगुणोत्कीर्तनादयो धर्मा [वाशब्द उत्तरपदापेक्षया समुच्चये] भावाः क्षायोपशमिकादयो जीवाजीवादयो वा, अर्हद्भिर्भगवद्भिः प्रज्ञप्ताः –सामान्येन कथिताः, प्ररूपिता –विस्तरेण निर्दिष्टाः, वाशब्दौ पूर्ववत् , तान् भावान् श्रद्दध्महे -सामान्येनैवमेतदिति, प्रतिपद्यामहे -प्रीतिकरणद्वारेण, रोचयामः -तेषु वाल्लभ्यं वहाम इत्यर्थः, स्पृशामः –क्रियामात्रेण कुर्मः, पालयामः - रक्षयामः, अनुपालयामः -पौन:पुन्येन रक्षयामः, एभिर्बहुवचनान्तपदैर्वयमिति कर्तृपदं योज्यं तान् भावान् श्रद्दधानः प्रतिपद्यमानै रोचयद्भिः स्पृशद्भिः पालयद्भिः अनुपालयद्भिः, अन्तः - मध्ये पक्षस्य यद्वाचितं –परेभ्यो दत्तम् , पठितम् –अधीतम् , परिवर्तितं -सूत्रतो गुणितम् , पृष्टं –पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः कृतः, अनुप्रेक्षितम् -अर्थविस्मरणभयादिना चिन्तितम् , अनुपालितम् –एभिः प्रकारैरनघमनुष्ठितम् , तद् दुःखक्षयाय कर्मक्षयाय मोक्षाय बोधिलाभाय संसारोत्तारणाय, अस्माकं भविष्यतीति गम्यते इतिकृत्वा -इतिहेतोः उपसम्पद्य -अङ्गीकृत्य णं इति वाक्यालङ्कारे विहरामि, वचनव्यत्ययाद् विहरामः ।
D:\new/d-3.pm5\3rd proof