________________
'पाक्षिक सूत्रं सविवरणम् -श्लो० ९८॥]
[६२९ करणाध्यवसायः, 'साधनं' करणं तल्लक्षणोऽर्थः साधनार्थः, मोक्षोपाय इत्यर्थः, निकाचनेव निकाचना, स्वव्रतप्रतिपत्तिदृढतरनिबन्धनमित्यर्थः, शुभकर्मणां निकाचनाहेतुत्वान्निकाचनेदमुच्यते, भावस्य -आत्मपरिणामस्य विशोधिकारणत्वाद् भावविशोधि:, पताकाया:चारित्राराधनावैजयन्त्या हरणं -ग्रहणम् , पताकाहरणम् , नि!हना –निष्काशना कर्मशत्रूणामात्मनगरान्निर्वासनेत्यर्थः, आराधना -अखण्डनिष्पादना गुणानां मुक्तिसाधकजीवव्यापाराणाम् , संवरयोगः -नूतनकर्मनिरोधः संवरस्तद्रूपो योगो : व्यापार: संवरेण योगः सम्बन्धो वा, प्रशस्तध्यानेनोपयुक्तता –सम्पन्नता, युक्तता च -समन्वितता विभक्तिव्यत्ययाज्ज्ञानेन परमार्थः सद्भूतार्थः, उत्तमार्थः -प्रकृष्टपदार्थ: मोक्षफलसाधकत्वेन, महाव्रतानां सर्ववस्तुप्रधानत्वात् । ‘एस०' लिङ्गव्यत्ययादेतन्महाव्रतोच्चारणं तीर्थंकरैः प्रवचनस्य सारो देशित इतिसम्बन्धः, किंविशिष्टैः तीर्थकरैः ?–'रइ०' रतिरागद्वेषमथनैः, रतिश्च मोहनीयकर्मोदयजन्यस्तथाविधानन्दरूपश्चित्तविकारः, ते च भगवन्तस्तीर्थकरा: षड्जीवनिकायस्य संयमं -रक्षामुपलक्षणत्वान्मृषावादादिपरिहारं चोपदिश्य उपलक्षणत्वात् स्वयं कृत्वा च त्रैलोक्यसत्कृतं स्थानं -सिद्धिक्षेत्रम् अभ्युपगताः -सम्प्राप्ताः ।
मङ्गलार्थं वीरस्तुतिमाह -नमोऽस्तु तुभ्यं हे वर्द्धमानस्वामिन्नितिप्रक्रमः, किंवि०?सिद्धः कृतार्थः, बुद्धः ज्ञाततत्त्वः, मुक्तः पूर्वकर्मबन्धनैः, नीरजो बध्यमानकर्मरहितः, नि:सङ्गः सङ्गरहितः, मानमूरण: गर्वोद्दलनः, गुणरत्नसागरः अनन्तज्ञानात्मकत्वादनन्त: मोऽलाक्षणिकः, अप्रमेयः प्राकृतजनापरिच्छेद्यः, महति गरीयसि, प्रक्रमान्मोक्षे कृतमते इति गम्यते, महावीर! कर्मविदारक हे वर्द्धमान !, कुतस्ते नमोऽस्तु ? इत्याह –'सामिस्स'त्ति विभक्तिव्यत्ययादितिकृत्वेति प्रत्येकं सम्बन्धाच्च स्वामीतिकृत्वा -प्रभुरिति हेतोः, तथा नमोऽस्तु ते, कुतः? इत्याह -अर्हतोऽर्हन्नितिकृत्वा, तथा नमोऽस्तु भगवानितिहेतोः, अथवा 'महइमह'त्ति रूढिवशादतिमहान् स चासौ वीरश्च तस्मै अर्हते भगवते इतिकृत्वा, यतस्त्वमुक्तविशेषणोपेतोऽतस्ते नमोऽस्त्वितिभावः । अथवा 'तिकट्ट'त्ति त्रिकृत्वस्त्रीन् वारानिति । प्रतिवाक्यं च नमस्क्रियाभिधानं स्तुतिप्रस्तावाददुष्टम् , यथा महाव्रतोच्चारणं कर्मक्षयाय तथा श्रुतकीर्तनमपीति तदाह-एषा खलु महाव्रतोच्चारणा 'कृता' विहिता, साम्प्रतम् इच्छामः श्रुतोत्कीर्तनं कर्तुमिति । तत् श्रुतं द्विधा -अङ्गप्रविष्टमङ्गबाह्यं च । यथा -
"गणहरकयमंगगयं, जं कय थेरेहिं बाहिरं तं तु । अंगपविटुं निययं अनिअअसुअंबाहिरं भणिअं" ॥१॥[ ]
D:\new/d-3.pm5\3rd proof