SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 'पाक्षिक 'सूत्रं सविवरणम् - श्लो० ९८ ॥ ] नव पापनिदानानि भोगादिप्रार्थनारूपाणि । तानि यथा - "निव १ सिट्ठि २ इत्थि ३ पुरिसे ४, परपविआरे ५ सपविआरे अ ६ । अप्परयसुर ७ दरिद्दे ८, सड्ढे ९ हुज्जा नव निआणे" ॥१॥[ सं.प्र./७९३ ] प० । नवब्रह्मचर्यगुप्तिगुप्तः अहमितिशेषः, द्विनवविधं ब्रह्मचर्यं परिशुद्धं निर्दोषम् अष्टादशभेदमित्यर्थः उ० ९ । उपघातनमुपघातस्तं दशविधम् । यथा - 'उग्गम ९ उप्पा २ एसण ३ परिहरण ४ परिसाडणा य ५ नाणतिगे ६-७-८ । संरक्खणा ९ चित्ते १० उवघाया दस इमे हुंति" ॥१॥ [ सं.प्र. / ७९४] उद्गमेन आधाकर्मादिना १६ उपघातो - विराधनं चारित्रस्य १, एवमुत्पादनया धात्र्यादि १६ रूपया २, एषणया शङ्कितादि १० भेदया ३, परिहरणा – अलाक्षणिकस्याकल्प्यस्य चोपकरणस्य परिभोगस्तया ४, परिशातना - वस्त्रपात्रादेः समारचनं तया ५, ज्ञानोपघातोऽकालस्वाध्यायादिभिः ६, दर्शनोपघातः शङ्कितादिभिः ७, चारित्रोपघातः समितिभङ्गादिभिः ८, संरक्षणेन शरीरादिविषयमूर्च्छया ९, अचिअत्तम् - अप्रीतिकम् १० । तथा दशविधमसंवरं संक्लेशं च - असमाधिम् । तद्यथा 6 - - " जोगिंदिओवहि ९ सुई १०, असंवरो दस य संकिलेसो अ । 11 नाणाइ ३ जोग ६ उवही ७, वसहि ८ कसाय ९ अन्नपाणेहिं १० ॥१॥[ ] योगत्रयेन्द्रियपञ्चकासंवर स्पष्टः ८ उपधिरनियताऽकल्प्यवस्त्रादेर्ग्रहणं वा उप० ९, सूच्या उपलक्षणत्वात् कुशाग्राणां च शरीरोपघातकारिणां यदसंगोपनं सूच्यसंवरः १० | ज्ञानादीनां संक्लेशोऽविशुद्ध्यमानता ३, मनः प्रभृतीनां सं० ६, उपधि: - वस्त्रादिस्तद्विषयः सं० ७, वसतेर्मनोज्ञद्वारेण सं० ८, कषाया एव तैर्वा सं० ९, अन्नपानाश्रितश्च सं० १०, प० । सत्यं दशविधं " जणवय १ संमय २ ठवणा ३, नामे ४ रूवे ५ पडुच्च सच्चे अ ६ । ववहार ७ भाव ८ जोगे ९, दसमे ओवम्मसच्चे अ १० ॥१॥ 11 [ ६२७ [ प्रज्ञा. ११।८६२, प्रव. ८९१ ] इतिरूपम् । समाधिस्थानान्यपि दश यथा – " इत्थिकहा १ ऽऽसण २ इंदिअनिरिक्ख ३ संसत्तवसहिवज्जणया ४। अइमायाहार ५ पणीअ ६, पुव्वरयसरणपरिहारो ७ ॥१॥ [ ] न य साए अ ८ सिलोगे ९, मज्जिज्ज न सद्दरूवगंधे य १० । इअ दस समाहिठाणा, सपरेसि समाहिकारणओ" ॥२॥[ ] १. C. P. । 'तो' मु० ॥ २. L.P. C. । उप० मु० नास्ति । ३. सद्द° C. संशो० P. नास्ति ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy