________________
६२६]
[धर्मसंग्रह:-तृतीयोऽधिकारः सप्त भयस्थानानि पूर्वोक्तानि प्रसिद्धानि, सप्तविधं पूर्वापरनिपातनाद्विभङ्गज्ञानम् , "इग १ पणदिसिलोगगमो २ किरियावरणो ३ मुदग्गओ जिओ ४ ण मुदग्गओ ५। रूवी ६ सव्वं जीवो ७ सगविभंगा"[ ] इत्येवंरूपम् । परि० शेषं० । पिण्डैषणाः पानैषणाश्च सप्त व्याख्यातपूर्वाः, अवग्रहप्रतिमा वसत्यभिग्रहा इत्यर्थः, त(य)था -"जहाचिंतिय १ सपरिग्गह २ सउग्गह ३ परुग्गहे सइगुवग्गहे सागारिअ ५ संथारुग्गहा ६ अहसंथडि ७ उग्गहो सत्त"[ ] तत्र पूर्वमेव विचिन्त्यैवम्भूत उपाश्रयो ग्राह्यो नान्यथा, तमेव याचित्वा गृह्णतः प्रथमा १, अहमन्येषां कृतेऽवग्रहम् ग्रहीष्यामि अन्येषां वाऽवग्रहे गृहीते वत्स्यामीति द्वितीया, प्रथमा सामान्येन, इयं तु गच्छान्तर्गतानां सांभोगिकानामसांभोगिकानां वोद्युक्तविहारिणाम् , यतस्तेऽन्योऽन्यार्थं याचन्त इति २, अन्यार्थमवग्रहं याचिष्ये, अन्यावगृहीते तु न स्थास्यामीति तृतीया, ३, एषा त्वहालन्दकानाम् , यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्त आचार्यार्थं तं याचन्त इति ३, अहमन्येषां कृतेऽवग्रहं न याचिष्ये, अन्यगृहीते तु वत्स्यामीति, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पिकार्थं परिकर्म कुर्वतां स्यात् ।। अहमात्मकृतेऽवग्रहं याचिष्ये नान्येषाम् , इयं तु जिनकल्पिकस्येति ५। यदीयमवग्रहं ग्रहीष्ये तदीयमेव चेत् कटादिसंस्तारकं ग्रहीष्यामि इतरथोत्कटुको वोपविष्टो वा रजनी गमयिष्यामि, एषापि जिनकल्पिकादेरिति ६, सप्तम्यपि पूर्वोक्ता, नवरं यथाऽवस्तृतमेव शिलादिकं ग्रहीष्यामि, नेतरदिति ७/ ___ तथा 'सत्तिक्कय'त्ति सप्तसप्तैककाः अनुद्देशतयैकसरत्वेनैककाः अध्ययनविशेषा आचाराङ्गद्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, ते च समुदायतः सप्तेतिकृत्वा सप्तैकका अभिधीयन्ते, तेषामेकोऽपि सप्तैकक इति व्यपदिश्यते तथानामत्वात् नामानि च प्रागुक्तानि । 'महज्झयण'त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुतस्कन्धाध्ययनापेक्षया अध्ययनानि महाध्ययनानि ७ तान्यपि नामतः पूर्वमुक्तानि । उ० ७।
अष्टौ जात्यादीनि मदस्थानानि अष्टौ कर्माणि प्रसिद्धानि, तेषां बन्धं चअभिनवग्रहणम् , अष्ट च प्रवचनमातरो दृष्टा –उपलब्धाः , कैः ? इत्याह -अष्टविधा - अष्टप्रकारा निष्ठिताः -क्षय गता अर्थाः प्रक्रमाज्ज्ञानावरणादिपदार्था येषां ते तथा तैजिनैरित्यर्थः, उ० ८।
१. किरिआवरणो ३ जिओ तणू ४ ऽणुमओ ५ रुवी ६-मु० C.P. मूल । किरिआवरणो मुदग्गओ जीओ मणुदुग्गओ रुवी-P. संशो० । तुला-स्थानाङ्गसूत्रे-'मुदग्गे जीवे ४ अमुदग्गे जीव ५ [७।५४२] ।। २. P.C. । सइगुवग्गहे-मु० नास्ति ॥ ३. द्वितीय-मु० नास्ति ॥ ४. एवं सप्तति नामानि L.P. ॥ ५. L.P. I नामतः-मु० C. नास्ति ।।
D:\new/d-3.pm53rd proof