________________
६२२ ]
अथ महाव्रतानां यथाक्रममतिचारानाह
44
-
'अप्पसत्था य जो जोगा, परिणामा य दारुणा । पाणाइवायस्स वेरमणे, एस वुत्ते अइक्कमे ॥१॥ तिव्वरागा य जा भासा, तिव्वदोसा तहेव य । मुसावायस्स वेरमणे, एस वुत्ते अइक्कमे ॥२॥ उग्गहं च अजाइत्ता, अविदिन्ने अ उग्गहे । अदिन्नादाणस्स वेरमणे० ॥३॥ सद्दारुवारसागंधाफासाणं पवियारणा । ० ॥४॥
[ धर्मसंग्रहः - तृतीयोऽधिकारः
इच्छा मुच्छा य गेही य, कंखालोभे अ दारुणे । परिग्गहस्स वेरमणे० ॥५॥
अइमत्ते अ आहारे, सूरखित्तंमि सकिए । राइभोअण०'' ॥६॥
‘अप्रशस्ता' असुन्दराः ‘चः' समुच्चये 'ये' 'योगा' अयतचङ्क्रमणभाषणादयो व्यापाराः 'परिणामाश्च' भूतघाताद्यध्यवसायाः 'दारुणा' रौद्राः प्राणातिपातस्य विरमणे एषो यः अतिक्रमोऽतिचार उक्त इति मत्वा तान् परिहरेदिति सर्वत्र योजना कार्या १ | 'तीव्ररागा' उत्कटविषयानुबन्धा या भाषा तथैव च तीव्रद्वेषा - उग्रमत्सरा भाषा मृषावादस्य विरमणे एषोऽतिक्रमोऽतिचार उक्तः २। अवग्रहम् – आश्रयम् अयाचित्वा स्वामिनः स्वामिसन्दिष्टद्वा सकाशादननुज्ञाप्य, तत्रैव यदवस्थानमिति गम्यम्, अविदत्ते वा - अवितीर्णे प्रतिनियतावग्रहमर्यादाया बहिरित्यर्थः, यच्चेष्टनमिति शेषः । अदत्तादानस्य विरमणे ३। शब्दरूपरसगन्धस्पर्शानाम् [आकारस्येहागमिकत्वात्, प्रक्रमान्मनोज्ञानां ] 'प्रविचारणा' रागात् प्रतिसेवना । मैथुनस्य विरमणे ४। इच्छा अनागतान्यतरार्थं प्रार्थना, मूर्छा च हृतनष्टपदार्थशोचना, गृद्धिश्च विद्यमानपरिग्रहप्रतिबन्धः, काङ्क्षा - अप्राप्तविविधार्थप्रार्थना तद्रूपो लोभः काङ्क्षालोभः ‘च:’ समुच्चये ‘दारुणो’ रौद्रः परिग्रहस्य वि० ५ । ' अतिमात्र आहारः ' निशि क्षुद्भयेन दिवैव बहुभोजनं सूरक्षेत्रमुदयास्तरूपं नभः खण्डं तस्मिन् 'शङ्किते' उदयक्षेत्रमस्तक्षेत्रं वा प्राप्तो न वेतिरूपे आहारो भुक्त इति वर्त्तते रात्रिभोजनस्य० ६ ।
D:\new/d-3.pm5\3rd proof
१. L. P. । प्रविचारणा - रागार्थं प्रार्थना, मूर्छा च- मु० C. ॥ २. L.P. संशो० । [काङ्क्षा ] तद्रूप C. P. मु० मूल ॥