________________
'पाक्षिकं सूत्रं सविवरणम् -श्लो० ९८॥]
[६१७ गुणग्राहिकस्य गुणानुरक्तस्य १५, निर्विकारस्य इन्द्रियमनोविकाररिक्तस्य १६, निवृत्तिलक्षणस्य -सर्वव्यापारनिवृत्तिचिह्नस्य १७, पञ्चमहाव्रतयुक्तस्य १८, असन्निधिसञ्चयस्य १९, अविसंवादिनः २०, संसारपारगामिनः, भवतारकस्येत्यर्थः २१, निर्वाणगमनपर्यवसानफलस्य, निर्वाणगमनं -मोक्षमगमनमेव पर्यवसानं परमार्थरूपं फलं यस्य स तस्य २२, तादृशस्य धर्मस्य पूर्वमज्ञानतया १ अश्रवणतया -अनाकर्णनेन २ अबोध्या - अबोधेन ३ अनभिगमेन -सम्यगप्रतिपत्त्या ४ अभिगमेन वा-विभक्तिव्यत्ययादभिगमे वा -सम्यग्धर्मप्रतिपत्तौ वा प्रमादेन १ रागद्वेषप्रतिबद्धतया २ बालतया -मूढत्वेन शिशुत्वेन वा ३, मोहतया -मिथ्यात्वादिमोहोदयेन ४, मन्दतया -अलसतया ५, क्रीडनया - केलिकिलतया ६, त्रिगौरवगुरुतया –ऋद्धिरससातगौरवभारिकतया ७, चतुष्कषायोपगतेन - क्रोधाद्युदयवशगमनेनेत्यर्थः ८, पञ्चेन्द्रियोपवशार्तेन पञ्चेन्द्रियवशेन यदार्तं विह्वलता तेन ९, प्रत्युत्पन्नभारितया -प्रत्युत्पन्नो –वर्तमानो यो भारः -कर्मसमूहः स विद्यते यस्यासौ प्रत्युत्पन्नभारिक तस्य भावस्तत्ता तया १०, सातात् –सातकर्मोदयात् सौख्यं सातसौख्यं तदनुपालयता, सुखासक्तमनसेत्यर्थः ११ ‘इहं वे'ति अस्मिन् वा भवे -वर्तमानजन्मनि 'अन्येषु वा भवग्रहणेषु' अतीतानागतेषु प्राणातिपातः कृतो वा कारितो वा क्रियमाणो वा परैः समनुज्ञातः तं निन्दामि गरिहामि त्रिविधं कृतादिभेदैस्त्रिप्रकारं त्रिविधेन -मनसा वाचा कायेन ।
साम्प्रतं त्रैकालिकप्राणातिपातविरतिं प्रतिपादयन्नाह -अतीतं निन्दामि 'प्रत्युत्पन्नं' वर्तमानं संवृणोमि अनागतं प्रत्याख्यामि, किं तद् ? इत्याह –'सर्वं प्राणातिपातं' [इदमेवानागतप्रत्याख्यानं विशेषयन्नाह-] यावज्जीवमनिश्रितोऽहं निश्रारहित आशंसामुक्त इत्यर्थः, नैव स्वयं प्राणान् अतिपातयामि, नैवान्यैः प्राणान् अतिपातयामि, प्राणानतिपातयतोऽप्यन्यान्न समनुजानामीति । कतिसाक्षिकमिदं प्रत्याख्यानम् ? इत्याह - 'तद्यथा-अर्हत्साक्षिकम् , सिद्धसाक्षिकम् , साधुसाक्षिकम् , देवसाक्षिकम् , आत्मसाक्षिकम् ,' अत्र अर्हन्तः साक्षिणः समक्षभाववत्तिनो यत्र तदर्हत्साक्षिकम् , यथा स्यात्तथेत्यादिरर्थः । एवमिति प्रत्याख्याने कृते सति भवति–जायते भिक्षुर्वा –साधुभिक्षुकी वा -साध्वी वा, 'संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा' तत्र सामस्त्येन यतः संयतः
१. गमनेन पञ्चे P. मूल ।। २. L.P. संशो० पाक्षिकसूत्रवृत्ति प० १५ । क्रोधाद्युदयवशगमनेनेत्यर्थः-मु० C. नास्ति ॥ ३. पञ्चेन्द्रियवशेन यदार्तं विह्वलता तेन-मु० नास्ति ॥ ४. P. संशो० । °भारिक(त)या-मु० C.P. मूल ।। ५. P.C. । सविशेषमाह-मु० ॥
D:\new/d-3.pm53rd proof