SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ६१६] [धर्मसंग्रहः-तृतीयोऽधिकारः भवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, एस खलु पाणाइवायस्स वेरमणे हिए सुए खमे निस्सेसिए आणुगामिए पारगामिए सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुद्दव्वणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुच्चिन्ने परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाए त्तिकट्ट उवसंपज्जित्ता णं विहरामि । पढमे भंते ! महव्वए उवट्ठिओमि सव्वाओ पाणाइवायाओ वेरमणं" ॥१॥ स प्राणातिपातश्चतुर्विधः 'प्रज्ञप्त:' कथितः, 'तद्यथा' स च यथा द्रव्यतः क्षेत्रतः कालतः भावतः । तत्र द्रव्यतो द्रव्यमाश्रित्य, णं इति वाक्यालङ्कारे, प्राणातिपातः षट्सु जीवनिकायेषु पृथिव्यप्तेजोवायुवनस्पतित्रसरूपप्राणिगणेषु , क्षेत्रतः प्राणातिपातः सर्वलोके चतुर्दशरज्ज्वात्मके, कालतः प्राणातिपातो दिवा वा रात्रौ वा, भावतः प्राणातिपातो रागेण वा द्वेषेण वा, एवं प्राणातिपातं भेदतोऽभिधाय तस्यातीतकालविहितस्य सविशेष निन्दामाह - 'जं मए' इत्यादि, यो मयाऽस्य धर्मस्य केवलिप्रज्ञप्तादिद्वाविंशतिविशेषणविशेषितस्य पूर्वमज्ञानतादिभिश्चतुभिः प्रमादादिभिश्चैकादशभिः कारणैः प्राणातिपातः कृतः, तं निन्दामीत्यादिसम्बन्धः । 'जं'ति विभक्तिव्यत्ययाद्यः प्राणातिपात इति योगस्तत्र मयेति प्रतिक्रामकसाधुरात्मानं निर्दिशति, अस्य धर्मस्य यत्याचारस्य, किंविशिष्टस्य ? केवलिप्रज्ञप्तस्य १ अहिंसालक्षणस्य -अहिंसाचिह्नस्य २ सत्याधिष्ठितस्य ३ विनयमूलस्य ४ क्षान्तिप्रधानस्य क्षमाश्रेष्ठस्य ५ अहिरण्यसुवर्णस्य रजतसुवर्णमयकलशादिरहितस्य ६ उपशमप्रभवस्य इन्द्रियमनोजयोत्पन्नस्य ७ नवविधब्रह्मचर्यगुप्तस्य-नवब्रह्मगुप्तियुक्तस्य ८ अपचमानस्य -न विद्यन्ते पचमाना:-पाचका: यत्रासौ, पाकक्रियानिवृत्तसत्त्वासेवितस्य, अथवा अप्रमाणस्य मानरहितस्य ९ भिक्षावृत्तिकस्य, भिक्षया वर्त्तनं यत्र स तस्य १० कुक्षिशम्बलस्य –भुक्तिमात्रपाथेयस्य ११ निरग्निस्मरणस्य -अग्निस्मरणरहितस्य निरग्निशरणस्य वा १२ संप्रक्षालितस्य–क्षालितसर्वमलस्य १३, त्यक्तदोषस्य परिहृतरागादेः १४, १. L.P.C. । अणुवद्दवणयाए-मु० ॥ २. P.C. I क्षमाश्रेष्ठस्य-मु० नास्ति ॥ ३. L.P. संशो० । रजतसुवर्णमयकलशादिरहितस्य-मु० नास्ति । द्रव्यकाञ्चनरहितस्य-C.P. मूल ॥ ४. L.P. संशो० पाक्षिकसूत्रवृत्तिः प० १४। कषायछेदोत्पन्नस्य-C.P. मूल ॥ ५. P.C. नवब्रह्म मु० ॥ ६. नवब्रह्मचर्यगुप्ति० P. ।। ७. C.P. मूल । मानरहितस्य-मु० नास्ति ।। ८. P. । तस्य-मु० C. नास्ति ।। D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy