SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ६१४] [ धर्मसंग्रहः - तृतीयोऽधिकारः वेरमणछट्ठा, तंजहा –सव्वाओ पाणाइवायाओ वेरमणं १ सव्वाओ मुसावायाओ वेरमणं २ सव्वाओ अदिण्णादाणाओ वेरमणं ३ सव्वाओ मेहुणाओ वेरमणं ४ सव्वाओ परिग्गहाओ वेरमणं ५ सव्वाओ राईभोयणाओ वेरमणं ६ ' "1 [प्रश्नसूत्रं छट्ठेति यावत्, सेशब्दश्चाथार्थे, किमिति परिप्रश्ने, ततश्चायं वाक्यार्थःअथ किं तद्वस्तु महाव्रतोच्चारणा ? अथवा प्राकृतशैल्याऽभिधेयवल्लिङ्गवचनानीति न्यायादथः] का सा महाव्रतोच्चारणा ?, गुरुराह - 'महाव्रतोच्चारणा पञ्चविधा प्रज्ञप्ता रात्रिभोजनविरमणषष्ठा, तद्यथा इति उपदर्शनार्थः 'सर्वस्मात् ' त्रसस्थावरसूक्ष्मबादरभेदभिन्नात् कृतकारितानुमतिभेदाच्चेत्यर्थः 'प्राणातिपातात्' जीवहिंसनात् विरमणम्, 'सर्वस्मात्’ हास्यलोभादिभवात् ‘मृषावादात्' असत्यवचनाद्विरमणं 'सर्वस्मात्' स्वाम्यदत्तादिचतुर्विधात् अदत्तादानात् –स्तेयाद्विरमणम्, 'सर्वस्मात् ' 'दिव्यादिसम्बन्धिनो 'मैथुनात्' कामसङ्गाद्विरमणम्, ‘सर्वस्मात्' मूर्च्छामात्ररूपात् परिग्रहाद्विरमणम्, 'सर्वस्मात् ' दिवागृहीतदिवाभुक्तादिभेदभिन्नात् रात्रिभोजनाद्विरमणम्, इत्युक्त्वा प्रथमव्रतस्योच्चारमाह "तत्थ खलु पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते ! पाणाइवायं पच्चक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा, णेव सयं पाणे अइवाएज्जा णेवण्णेहिं पाणे अइवायाविज्जा पाणे अइवायंते वि अण्णे ण समणुज्जाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं, ण करेमि ण कारवेम करतं प अण्णं न समणुज्जाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" 'तत्र' महाव्रतोच्चारणे ‘खलु' निश्चयेन 'भन्ते' भदन्त इति, गुर्वग्रे प्रतिक्रमणार्थं पूज्यसम्बोधनम्, ‘प्रथमे महाव्रते प्राणातिपाताद्विरमणं' विरमणं सर्वथा निवृत्तिरिति सर्वत्र व्याख्येयम्,कैश्चिदत्र सप्तमीस्थाने प्रथमा कथ्यते, प्रथमं महाव्रतमिति सर्वत्रापि प्रथमां कथयन्ति, सर्वं भदन्त ! प्राणातिपातं 'प्रत्याख्यामि' परित्यजामि, अत्र यदुक्तं सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामि तदेव विशेषतोऽभिधित्सुराह - ' से सुहुमं वा' इत्यादि सेशब्दः `तद्व्रतवाचकः (तद्यथार्थे) 'सुक्ष्मं वा' पञ्चेन्द्रियागोचरं ज्ञानालोक्यम्, 'बादरं वा' १. P.L. संशो० पाक्षिकसूत्रवृत्तिः प० ८ । इति उपदर्शनार्थ : - मु० C. नास्ति ॥ २. L. P. संशो० । दन्तविशोधनमात्रग्रहणरूपात् - मु० C.P. मूल ॥ ३. L. P. संशो० । स्त्रीकथादिमात्रात्-मु० C. ॥ ४. L.P. संशो० । पचन (आहार) मात्रग्रहणात् - मु० । पवनमात्रग्रहणात् - C. ॥ ५. परित्यजामि केषां प्राणिनामतिपातमित्यादि सेशब्दः P. मूल C. मूल ॥ ६. तद्यथार्थे सूक्ष्मं - P. I D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy