________________
'पाक्षिक सूत्रं सविवरणम् -श्लो० ९८॥]
[६१३ अथ पाक्षिकसूत्रव्याख्या । यथा -
"तित्थंकरे अ तित्थे, अतित्थसिद्धे य तित्थसिद्धे य ।
सिद्धे जिणे य रिसि महरिसी अ णाणं च वंदामि" ॥१॥ पाक्षिकसूत्रस्यादौ मङ्गलसिद्ध्यर्थं अर्हत्सिद्धभेदानां प्रणतिमाह-अहं वन्दे इति क्रियापदं सर्वत्र, कान् ?–'तीर्थकरान्' वीतरागान् ‘तीर्थान्' प्रथमगणधरसङ्घादीन् , 'अतीर्थसिद्धान्' 'तीर्थसिद्धान्' 'सिद्धांश्च' सिद्धप्रकारद्वयव्याख्या सिद्धस्तवादवसेया 'जिनान्' सामान्यके वलिनः, 'ऋषीन्' मूलगुणोत्तरगुणयुतान् यतीन् 'महर्षीन्' तादृग्विधानेवाऽणिमादिलब्धियुतान् मुनीन् , 'ज्ञानं' पंचविधं वन्दे सर्वत्र योज्यम् ।
"जे य इमं गुणरयणसागरमविराहिऊण तिण्णसंसारा ।
ते मंगलं करित्ता, अहमवि आराहणाभिमुहो" ॥२॥ 'ये' मुनयः 'इमं' 'गुणरत्नसागरम्' 'अविराध्य' सम्यक् पालयित्वा 'तीर्णसंसारा' निस्तीर्णभवाः, ते मङ्गलं क्रियासुः, अहमपि आराधनाभिमुखः गुणरत्नसागरस्य, मुनीनां चाराधनायामेकचित्त इत्यर्थः । पुनरपि स्वस्य मङ्गलार्थम् अर्हद्धर्मयोराशिषमाह -
"मम मंगलमरिहंता, सिद्धा साहू सुयं च धम्मो अ।
खंती गुत्ती मुत्ती अज्जवया मद्दवं चेव" ॥१॥ 'अर्हन्तो' जिनाः, 'सिद्धाः' पञ्चदशभेदाः, 'साधवो' मुनयः, 'श्रुतम्' आगमः, 'धर्मो' यतिश्राद्धाचारलक्षणः, 'क्षान्तिः' तितिक्षा, ‘गुप्तिः' मनोवाक्कायरक्षणम् , 'मुक्तिः' निर्लोभता, 'आर्जवं' निर्मायिता, 'माईवं' निर्मदता, मम मङ्गलं क्रियासुः, क्रियासुरित्यनुवर्त्तते । महाव्रतोच्चारसमूचनमाह -
"लोगम्मि संजया जं करेंति परमरिसिदेसियमुआरं।
अहमवि उवट्ठिओ तं महव्वयउच्चारणं काउं" ॥१॥ 'लोके' कर्मभूमिरूपे 'संयता:' मुनयो ‘यां कुर्वन्ति' विदधति, किं विशिष्टां ?'परमर्षिदेशितां' तीर्थकरादिकथिताम् , 'उदारां' बलवत्तरां, 'महाव्रतोच्चारणां' पञ्चमहाव्रतकथनम् , 'अहमपि' तन्महाव्रतोच्चारणां कर्तुमुपस्थितः-प्रह्वीभूतः ।।
“से किं तं महव्वयउच्चारणं ?, महव्वयउच्चारणा पंचविहा पण्णत्ता राईभोयण
१. P. संशो० पाक्षिकसूत्रवृत्तौ । यत्कुर्वन्ति विदधति किं तत् ? 'परमर्षिदेशितं' तीर्थकरादिकथितम् उदारं बलवत्तरं 'महाव्रतोच्चारणं' महाव्रतकथनम् अहमपि तन्महाव्रतोच्चारणं-मु० C. ॥ २. किं वि० P. । किं विशिष्टाम्-इति पक्खीसूत्रवृत्तौ प०६॥
D:\new/d-3.pm5\3rd proof