________________
६१२]
[ धर्मसंग्रहः - तृतीयोऽधिकारः भावना त्वेवम् - मणसा न करेइ आहारसण्णामुक्को सोइंदियसंवुडो खंतिसंपन्नो पुढविकायारंभं, एवं मद्दवसंपन्नो एवं समणधम्मेण दस लद्धा, एवं आउतेउवाउवणस्सइबितिचउपणिदियऽजीवेहिं सयं, एवं पंचहिं इंदिएहिं पंचसया, चउहिं सण्णाहिं दो सहस्सा, मणवयकाएहिं छ सहस्सा लद्धा, कारावणेण वि छ, अणुमइए वि छ, एवं अट्ठारसहस्सा ।
तथा ‘अक्षताकारचरित्रा’ आकारः – स्वरूपम्, अक्षताकारम् —अतिचारैरप्रतिहतस्वरूपं चरित्रं - चारित्रं येषां ते तथा अक्खुअ त्ति आर्षत्वादुकारः, 'तान् सर्वान्' गच्छगतगच्छनिर्गतभेदान् ‘शिरसा' उत्तमाङ्गेन 'मनसा' अन्तःकरणेन 'मस्तकेन वन्दे' इति वाचा, वन्दे इति क्रियापदमावृत्य योज्यम् ।
इत्थं साधूनभिवन्द्य पुनरोघतः सर्वसत्त्वक्षामणमैत्री प्रदर्शनायाह - "खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे ।
मित्ती मे सव्वभूएसु, वेरं मज्झ न केणइ" ॥१॥
इति स्पष्टा | नवरं 'सव्वे जीवा खमंतु मे'त्ति मा तेषामप्यक्षान्तिप्रत्ययः कर्मबन्धो भवत्विति करुणयेदमाह । समाप्तौ स्वरूपप्रदर्शनपूर्वं मङ्गलमाह
"एवमहं आलोइअ निंदिअ गरहिअ दुर्गाछिउं सम्मं । तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं" ॥१॥
-
इति ‘एवं’ प्रतिक्रमणसूत्रोक्तप्रकारेण 'आलोच्य' गुरोरग्रे प्रकाश्य 'निन्दित्वा' आत्मसाक्षिकं स्वस्य पापकारिणो निन्दां कृत्वा 'गर्हित्वा' गुरुसाक्षिकं स्वं निन्दित्वा 'जुगुप्सित्वा' च अथवा 'दुगंछिअ'त्ति पञ्चमीलोपे जुगुप्सितात् सावद्ययोगात् 'त्रिविधेन' मनोवाक्कायैः ‘प्रतिक्रान्तो' निवृत्तः सन्नहं वन्दे - नमस्करोमि, जिनांश्चतुर्विंशतिमिति । एतेषां चालोचनानिन्दागर्हाप्रतिक्रमणानां फलं शल्योद्धरणपश्चात्तापापुरस्कारव्रतच्छिद्रपिधानाद्युत्तराध्ययनेभ्यो ज्ञेयम् । एवं दैवसिकं प्रतिक्रमणमुक्तम्, रात्रिकमप्येवम्भूतमेव, नवरं रात्रिकाभिलापेनातिचारो वाच्यः ।
ननु रात्रौ ‘इच्छामि पडिक्कमिउं गोयरचरिआए' इत्यादि सूत्रमपार्थकमसम्भवाद् इति चेत्, न स्वप्नादौ तत्संभवाददोषः, अखण्डं वा सूत्रमुच्चारणीयम्, कथमन्यथा योगवाहिनोऽपि पारिष्ठापनिकाद्याकारानुच्चारयन्तीति सर्वमनवद्यम् । समाप्ता चेयं यतिप्रतिक्रमणवृत्तिः ।
१. अक्षताचारचारित्रिणः-इति आवश्यकहारिभद्र्यां वृत्तौ भा० २ प० १८२ ॥ २. स्वरूपं यस्य
अक्ष L. P. II
D:\new/d-3.pm5\3rd proof