________________
'अड्डाइज्जेसुसूत्रं सविवरणम् -श्लो० ९८॥]
[६११ "संजम बंभे कप्पे नाणे किरिआइ सम्म बोहीसु।
मग्गे सविपक्खेसुं परिन्न उवसंपया कमसो" ॥१॥[] इदानीं छद्मस्थत्वादशेषदोषशुद्ध्यर्थमाह -"जं संभरामि जं च न संभरामि''त्ति यत् किञ्चित् स्मरामि, यच्च छद्मस्थत्वादनाभोगान्नेति, तथा यत्प्रतिक्रमामि आभोगाद्विदितम् , यच्च न प्रतिक्रमामि, सूक्ष्ममविदितम् , अनेन प्रकारेण यः कश्चिदतिचार: "तस्स सव्वस्स देवसिअस्स अइयारस्स पडिक्कमामि''त्ति कण्ठ्यम् ।
इत्थं प्रतिक्रम्य पुनरप्यकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह –'समणोऽहं'इत्यादि श्रमणोऽहम् , तत्रापि न चरकादिः, किं तर्हि ?-'संयतः' सामस्त्येन यतः, इदानीं 'विरतो' निवृत्तोऽतीतस्यैष्यस्य च निन्दनसंवरणद्वारेणात एवाह –'प्रतिहतम्' इदानीमकरणतया, 'प्रत्याख्यातम्' अतीतं निन्दया एष्यमकरणतया पापकर्म येनेति । निदानस्य भवमूलत्वेन प्रधानदोषत्वात्तद्रहितत्वमात्मनो भेदेनाह –'अनिदानो' निदानरहितः, सकलगुणमूलभूतगुणयुक्ततां दर्शयन्नाह –'दृष्टिसंपन्नः' सम्यग्दर्शनयुक्त इत्यर्थः, द्रव्यवन्दनपरिहारायाह –'मायामृषाविवर्जितो' मायागर्भमृषावादपरिहारवान् । ____ एवम्भूतः सन् किम् ? इत्याह – “अड्डाइज्जेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंत के वि साहू रयहरणगुच्छपडिग्गहधारा पंचमहव्वयधारा अट्ठारससहस्ससीलंगधारा अक्खुआयारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि" अर्द्धतृतीयेषु द्वीपसमुद्रेषु जम्बूद्वीपधातकीखण्डपुष्कराद्धेषु , समुद्रग्रहणं कदाचिच्चारणादयः समुद्रेऽपि प्राप्यन्त इति ज्ञापनार्थम् , तत्रापि पञ्चदशसु भरतैरावतमहाविदेहपञ्चकरूपासु कर्मभूमिषु , यावन्तः केचित् साधवो -मुनयः, उपकरणमाश्रित्य 'रजोहरणगोच्छकपतद्ग्रहधारका:' तत्र रजोहरणं -धर्मध्वजो गोच्छकपतद्ग्रहशब्दाभ्यां च -
"पत्तं पत्ताबंधो, पायठवणं च पायकेसरिया ।
पडलाइ रयत्ताणंच, गोच्छओ पायनिज्जोगो" ॥१॥[पञ्च.७८०, प्रव.४९१] इति क्रमेण 'आद्यन्तग्रहणे मध्यग्रहणम्' इतिन्यायात् सप्तविधपात्रनिर्योगपरिग्रहस्तस्य धारकाः, तथा पञ्चमहाव्रतेषु धारा -प्रकर्षो येषां ते पञ्चमहाव्रतधाराः, तदेकाङ्गविकलप्रत्येकबुद्धादिसंग्रहायाह –'अष्टादशशीलाङ्गसहस्रधारकाः' तथाहि -केचिद् भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि । अष्टादशशीलाङ्गसहस्राणि चैवम् –
"जोए ३ करणे ३ सण्णा ४, इंदिय ५ पुढवाइ १० समणधम्मो १० अ। सीलंगसहस्साणं, अट्ठारसगस्स निप्फत्ती" ॥१॥[पञ्चा. १४॥३]
D:\new/d-3.pm5\3rd proof