________________
६१०]
[धर्मसंग्रहः-तृतीयोऽधिकारः ष्कुर्वन्नाह –'तं धम्मं सद्दहामि' त्ति य एष नैर्ग्रन्थप्रावचनलक्षणो धर्म उक्तस्तं धर्मं श्रद्दधे' तथेति प्रत्येमि, सामान्येनाप्येवं स्यादित्यत आह –'पत्तियामि'त्ति प्रत्येमि प्रतिपद्ये वा प्रीतिकरणद्वारेण, 'रोएमि'त्ति रोचयामि अभिलषामि, अतिरेकेणासेवनाभिमुखतया, तथा प्रीतिः रुचिश्च भिन्ने एव, यथा क्वचिद् दध्यादौ प्रीतिसद्भावेऽपि न सर्वदा रुचिः, 'फासेमि'त्ति स्पृशामि, आसेवनाद्वारेणेति, 'पालेमि'त्ति पाठोऽतिरिक्त इव लक्ष्यतेऽतिरूढश्चेत् तदा पालयामि अतिचारेभ्यो रक्षामि इति व्याख्या, एवं पालितो इत्यपि, 'अनुपालेमि'त्ति अनुपालयामि पौनःपुन्यकरणेन, 'तं धम्मं सद्दहंतो' इत्यादि, तं धर्मं श्रद्दधानः प्रतीयन् प्रतिपद्यमानो वा रोचयन् स्पृशन् अनुपालयन् । “तस्स धम्मस्स अब्भुट्टिओमि आराहणाए विरओमि विराहणाए" तस्य धर्मस्य पूर्वोक्तस्याभ्युत्थितोऽस्मि, आराधनायामाराधनाविषये, विरतोऽस्मि निवृत्तोऽस्मि, तस्यैव विराधनायाम् ।
एतदेव भेदेनाह -"असंजमं परिआणामि संजमं उवसंपज्जामि, अबंभं प० बंभं उ०, अकप्पं प० कप्पं उ०, अन्नाणं परि० नाणं उ०, अकिरिअंप० किरिअं उ०, मिच्छत्तं प० सम्मत्तं उ०, अबोहिंप० बोहिं उ०, अमग्गं प० मग्गं उ०, जं संभरामि जं च न संभरामि जं पडिक्कमामि जं च न पडिक्कमामि तस्स सव्वस्स देवसिअस्स अइआरस्स पडिक्कमामि समणोऽहं संजयविरयपडिहयपच्चक्खायपावकम्मे अणिआणो दिट्ठिसंपन्नो मायामोसविवज्जिओ" व्याख्या – 'असंयम' प्राणातिपातादिरूपं परिजानामीति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा –'संयम' प्रागुक्तस्वरूपम् 'उपसंपद्ये' अङ्गीकुर्वे इत्यर्थः, संयमश्चा-संयमानेपरिहते स्यात्। प्रधानमसंयमाझंचाब्रह्म, अतस्तत्परिहारार्थमाह - 'अबंभ'इत्यादिअब्रह्म –बस्त्यनियमलक्षणंतद्विपरीतं ब्रह्म, शेषं पूर्ववत् , असंयमाङ्गत्वादेवाह - अकल्पो-ऽकृत्यम् , कल्पस्तु कृत्यमिति, अकल्पश्चाज्ञानादेव भवति, अतस्तत्परिहारार्थमाह - 'अन्नाणं' इत्यादि, अज्ञानं सम्यग्ज्ञानादन्यत् , ज्ञानंतु भगवद्वचनम् , अज्ञानभेदपरिहरणायैवाह - 'अकिरिअं' इत्यादि अक्रिया नास्तिकवादः, क्रिया सम्यग्वादः, अज्ञानंच मिथ्यात्वमूलकम् , अतस्तत्परिहरणायाह –'मिच्छत्तं' इत्यादि, मिथ्यात्वम् -अतत्त्वरुचिः, सम्यक्त्वंतत्त्वप्रीतिः, एतदङ्गत्वादेवाह –'अबोधिम्' इत्यादि, अबोधि:-जिनधर्मानवाप्तिर्मिथ्यात्वस्य कार्यम् , बोधिस्तुसम्यक्त्वस्येति, मिथ्यात्वंचामार्गो मोक्षस्येत्यन्यस्याप्यमार्गस्य परिहाराय सामान्येनाह - 'अमग्गं' इत्यादि, अमार्गो -मिथ्यात्वकषायादि, मार्गस्तुसम्यग्दर्शनप्रशमादिरिति। उक्तपदानां पाठक्रमज्ञानाय पुनरियं संग्रहगाथा -
१. व्याख्या-मु० नास्ति ।।
D:\new/d-3.pm5\3rd proof