________________
'पगामसिज्जा'सूत्रं सविवरणम् - श्लो० ९८॥]
[६०९ हितं सत्यम् , नयदर्शनमपि स्वविषये सत्यं भवत्येवेत्यत आह –'अणुत्तरंति नास्त्युरमस्येति तत् , यथावस्थितसमस्तवस्तुप्रतिपादकत्वादुत्तममित्यर्थः, अन्यदप्येवं भविष्यतीत्यत आह –'केवलिअं' केवलमद्वितीयं नापरमित्थम्भूतमित्यर्थः केवलमेव कैवलिकम् , तथा 'प्रतिपूर्णम्' अपवर्गप्रापकैर्गुणैर्भूतमित्यर्थः, सर्वनयमयत्वात् सर्वविषयं वा, 'नेयाउअंति नयनशीलं नैयायिकम् , मोक्षगमकमित्यर्थः, न्यायोपपन्नं वा, तदप्यसंशुद्धं भविष्यतीत्यत आह –'संसुद्धं ति' सामस्त्येन शुद्धं संशुद्धम् , कषच्छेदतापकोटिशुद्धत्वात् एकान्ताकलङ्कमित्यर्थः, एवम्भूतमपि कथञ्चित् तत्स्वाभाव्यान्नालं भवनिबन्धनमायादिशल्यनिकर्त्तनाय भविष्यतीत्यत आह –'सल्लगत्तणं'ति कृन्ततीति कर्त्तनं शल्यानि -मायादीनि तेषां कर्त्तनं शल्यकर्त्तनम . परमतनिषेधार्थं त्वाह –'सिद्धिमग्गं मुत्तिमग्गं'ति सेधनं सिद्धिः - हितार्थप्राप्तिस्तस्या मार्गः सिद्धिमार्गस्तत् , मोचनं मुक्तिः -अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्गः, तद्धितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधनमिति भावना, आर्षत्वान्नपुंसकत्वम् , अनेन केवलज्ञानादिविकला: सकर्मकाश्च मुक्ता इति दुर्नयनिरासमाह, 'निज्जाणमग्गं'ति यान्ति तदिति यानम् , बाहुलकत्वात् कर्मणि ल्युट , निरुपम यानं निर्याणम् , ईषत्प्राग्भाराख्यं मोक्षपदमित्यर्थः, तस्य मार्गो निर्याणमार्गस्तद् , अनेनानियतसिद्धिक्षेत्रप्रतिपादकदुर्नयनिरासमाह, 'निव्वाणमग्गं'ति निर्वृतिनिर्वाणम् , सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः, तस्य मार्ग इति निर्वाणमार्गस्तद् , अनेन च निःसुखदुःखा मुक्तात्मान इतिप्रतिपादनपरदुर्नयनिरासमाह, निगमयन्नाह –'अवितहमविसंधि सव्वदुक्खपहीणमग्गं'ति 'अवितथं' सत्यम् , यदि च पौनरुक्त्यशङ्का तदा पूर्वत्र 'सच्च'न्ति सार्च - सपूजं जगत्पूजास्पदत्वादिति व्याख्येयम् , 'अविसन्धि' अव्यवच्छिन्नं सर्वदा अवरविदेहादिषु भावात् , 'सर्वदुःखप्रहीणमार्ग' सर्वदुःखप्रहीणो मोक्षस्तत्कारणमित्यर्थ' साम्प्रतं परार्थकरणद्वारेणास्य चिन्तामणित्वमपदर्शयन्नाह -'इत्थं ठिआ जीवा सिज्झंति' इति । अत्र -नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिद्ध्यन्तीत्यणिमाद्यतिशयफलं प्राप्नुवन्ति, 'बुज्झंति' इति बुध्यन्ते, केवलिनो भवन्ति 'मुच्चन्ति'त्ति मुच्यन्ते भवोपग्राहिकर्मभ्यः, 'परिनिव्वुडन्ति'त्ति 'परिनिव्वायंति'त्ति वा परि-समन्तान्निर्वान्ति, किमुक्तं भवति ?-'सव्वदुक्खाणमंतं करेंति'त्ति सर्वदुःखानां शारीरमानसभेदभिन्नानामन्तं -विनाशं कुर्वन्ति । ___ इत्थमभिधायाधुना तु चिन्तामणिकल्पे कर्ममलप्रक्षालनसमर्थसलिलौघं श्रद्धानमावि
१. निव्वाणमग्गं ति-L.P.C. नास्ति । निव्वाणगगं-मु० ॥ २. L.P.C. आवश्यकहारिभद्रीवृत्तिः प० १८१ । हादि(हे)षु-मु० ॥
D:\new/d-3.pm5\3rd proof