________________
६०८]
[ धर्मसंग्रहः - तृतीयोऽधिकारः 'पदहीनं' त्यक्तपदम्, 'विनयहीनम्' अकृतोचितविनयम्, 'घोषहीनम्' उदात्तादिघोषहीनम्, ‘योगरहितं' सम्यगकृतयोगोद्वहनम् 'सुष्ठु दत्तं' गुरुणा सुष्ठुशब्दस्य प्राच्यभाषयाऽधिकार्थत्वादल्प श्रुतार्हपात्रस्य बहुतरं दत्तमित्यर्थः, 'दुष्ठु प्रतीच्छितं' शिष्येण कलुषान्तरात्मनेति, ‘अकाले' अनाध्यायकाले कृतः स्वाध्यायः, काले - स्वाध्यायकाले न कृतः स्वाध्यायः, अस्वाध्यायिके स्वाध्यायितमिति, तंत्र अध्ययनम् अध्यायः, शोभन आ –मर्यादया ध्यायः स्वाध्यायः स एव स्वाध्यायिकम्, न स्वाध्याययिकमस्वाध्यायिकं तत्कारणमपि च रुधिरादि कारणे कार्योपचारात् अस्वाध्यायिकमुच्यते तच्च अस्वाध्यायिकनिर्युक्तेरवसेयमिति, तत्र अनाध्याये स्वाध्यायितं - स्वाध्यायः कृतः, स्वाध्यायिके – अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितम् इत्थमाशातनया योऽतितिचार कृतस्तस्य मिथ्या दुष्कृतमिति ।
एवमेकादिभिस्त्रयस्त्रिंशत्पर्यन्तैः स्थानैरतिचारप्रतिक्रमणं सूत्रे भणितम्, एवमन्यदपि ज्ञेयम्, यथा चतुस्त्रिंशताऽर्हदतिशयैः, पञ्चत्रिंशता बुद्धवचनातिशयैः, षट्त्रिंशतोत्तराध्ययनैरेवं यावच्छततारेण शतभिषजेति समवायाङ्गानुसारेण ज्ञेयम् ।
एवमतिचारविशुद्धिं कृत्वा नमस्कारमाह – अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तोऽपुनःकरणाय प्रतिक्रामन्नमस्कारपूर्वकमाह" नमो चउवीसाए तित्थयराणं उस भाइमहावीरपज्जवसाणाणं” नमश्चतुर्विंशतये तीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः ।
इत्थं नमस्कृत्य प्रस्तुतस्य प्रवचनस्य गुणव्यावर्णनायाह - " इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलिअं पडिपुण्णं णेआउअं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं, इत्थं ठिआ जीवा सिज्झति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति, तं धम्मं सद्दहामि पत्तिआमि रोएमि फासेमि अणुपालेमि, तं धम्मं सद्दहंतो पत्तिअंतो अंतो फासंतो अणुपालंतो”
,
व्याख्या –‘इदमेवेति' सामायिकादिप्रत्याख्यानपर्यन्तं द्वादशाङ्गं वा गणिपिटकं निर्गन्थाबाह्याभ्यन्तरग्रन्थनिर्गताः साधवो निर्ग्रन्थानामिदं नैर्ग्रन्थं 'प्रावचनम्' इति प्रकर्षेणाभिविधिनोच्यन्ते जीवादयो यस्मिंस्तत् प्रावचनम्, तत् किंस्वरूपम् ? इत्यत्राह - सद्भ्यो
१. C. । `काले कृतः स्वाध्यायः (काले न कृतः) अस्वा' - मु० । 'काले न कृतः स्वाध्याय अस्वा° P.L. ॥ २. P.L. । तत्र स्वाध्याय एव स्वाध्यायिकम् - मु० C. ॥ ३. C. I अनाध्याये - P. C. नास्ति ॥
D:\new/d-3.pm5\3rd proof