________________
'पगामसिज्जा'सूत्रं सविवरणम् -श्लो० ९८॥]
[६०७ सिद्धानाम् , तथाऽऽचार्ये लघुरकुलीनो दुर्मेधा अल्पलब्धिक इत्यादि, एवमुपाध्यायेऽपि वदन् , तथा साधुसाध्वीविषयेऽप्यसमयज्ञो मण्डलीभोगादौ किञ्चिदपवदन् , श्रावकश्राविकाविषये तु ज्ञातजिनधर्मा अपि न विरतिं प्रतिपन्नाः कथमेते धन्या उच्यन्ते इति वदन् , देवदेवीविषये त्वविरता एते कामप्रसक्ताः सामर्थ्य सत्यपि तीर्थोन्नत्यकर्त्तार इत्यादि, इहलोकपरलोकयोस्तु वितथप्ररूपणया आशातना, तत्र सदृशो मानुष्यादिरिहलोको विसदृशस्तु देवत्वादि: परलोकः, केवलिप्रज्ञप्तधर्मस्य श्रुतचारित्ररूपस्य प्राकृतभाषासम्बद्धं को वेद केनापि कल्पितं श्रुतमिदं किं वा चारित्रेण दानं विना इत्यादिवचनात्मिका(कया) वितथप्ररूपणया, सदेवमनुजासुरलोकस्याशातनया सप्तद्वीपोदध्यात्मको लोकः प्रजापतिकृतः प्रकृतिपुरुषयोर्योगे वेति, अत्र देवग्रहणाद्देवोपलक्षित ऊर्ध्वलोको गम्यते एवं मनुजग्रहणात् मर्त्यलोकोऽसुरग्रहणाच्चाधोलोक इति, सर्वप्राणिभूतजीवसत्त्वानामाशातनयेति, तत्र प्राणा - द्वीन्द्रियादयो व्यक्तोच्छासनिश्वासाः, अभूवन् भवन्ति भविष्यन्तीति चेति भूतानि-पृथिव्यादयो जीवन्तीति जीवा: -आयुःकर्मानुभवयुक्ताः सर्व एवेत्यर्थः सत्त्वाः सांसारिकसंसारातीतभेदाः, एकार्थिका वा ध्वनयो नानादेशजविनेयानुग्रहार्थमुपात्ता इति, आशातना तु वितथप्ररूपणादिनैव । तथाहि -अङ्गष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मेति, पृथिव्यादयस्तु अजीवा एव, स्पन्दनाचैतन्यकार्यानुपलब्धेः, जीवाः क्षणिका इति । सत्त्वाः संसारिणोऽङ्गष्ठपर्वमात्रा एव, संसारातीता न सन्त्येव, अपि तु -प्रध्मातदीपकल्पो मोक्षः, इत्यादिकेषाञ्चिन्मतानि, कालस्याशातना तु नास्त्येव काल इति । कालपरिणतिर्वा विश्वमित्यादिका । श्रुताशातना तु -
"को आउरस्स कालो ? मइलंबरधोयणे य को कालो ? ।
जइ मुक्खहेउ नाणं को कालो ? तस्सऽकालो वा ?" ॥१॥[ ] "काया वया य ते च्चिअ" [ ] इत्यादिना प्राग्धर्मद्वारेण श्रुताशातनोक्ता, इह तु स्वतन्त्रश्रुतविषयेति न पुनरुक्तम् । श्रुतदेवताऽऽशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी चेत्यादिका, वाचनाचार्याशातना तु निर्दुःखसुखाः प्रभूतान् वारान् वन्दनं दापयन्तीत्यादिका। तथा 'जं वाइद्धम' इत्यादि एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पौनरुक्तभाञ्जीति । तथा दोषदुष्टं श्रुतं यदधीतम् , तद्यथा-व्याविद्धं विपर्यस्तं कृतम् , विपर्यस्तसूत्रप्रोतरत्नमालावदनेन प्रकारेण या आशातना तया हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, 'व्यत्यानेडितम्' अन्यान्यशास्त्रपल्लवमीलनेन कोलिकपायसवत् कृतम् , 'हीनाक्षरम्' अक्षरन्यूनम् 'अत्यक्षरम्' अधिकाक्षरम् ,
१. P.L. | व्यक्तोच्छवासा-मु० C. ॥
D:\new/d-3.pm53rd proof