SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ६०६ ] [ धर्मसंग्रहः - तृतीयोऽधिकारः एवं परदारलोभनम् २३, अकुमारत्वेऽप्यात्मनः कुमारत्वभणनम् २४, एवमब्रह्मचारित्वेऽपि ब्रह्मचारिताप्रकाशनम् २५, येनैश्वर्यं प्रापितस्तस्यैव सत्के द्रव्ये लोभकरणम् २६, यत्प्रभावेण ख्यातिं गतस्तस्य कथञ्चिदन्तरायकरणम् २७, राजसेनाधिपराष्ट्रचिन्तकादेर्बहुजननायकस्य हननम् २८, अपश्यतोऽपि देवान् पश्यामीति मायया भणनम् २९, अवज्ञया देवेष्वहमेव देव इति प्रत्याख्यापनमिति ३०, एतैर्महामोहजनकैर्यतिजनसम्भवत्पक्षैः कैश्चित् कृतैः कैश्चिच्चिकीर्षितैरन्यैः पुनर्मनस्यपि चिन्तितैः । ‘एकत्रिंशता सिद्धादिगुणैः' आदौ गुणा आदिगुणाः, युगपद्भाविनो न क्रमभाविनः, सिद्धानामादिगुणाः सिद्धादिगुणास्तैः, ते चामी - पञ्चपञ्चद्विपञ्चाष्टत्रिभेदानां संस्थानवर्णगन्धरसस्पर्शवेदानामभावोऽशरीरत्वमसङ्गत्वम् अजन्मित्वं चेत्येकत्रिंशत्, अथवा ज्ञानावरणीयादिकर्मणां पञ्चनवद्विद्विचतुर्द्विद्विपञ्चविधानां क्षयादेकत्रिंशत् सिद्धादिगुणाः, तत्र मोहस्य दर्शनमोहचारित्रमोहभेदान्नाम्नस्तु शुभाशुभभेदाद् द्वैविध्यम् । ‘द्वात्रिंशता योगसंग्रहैः' प्रशस्तमनोवाक्कायव्यापारसंग्रहनिमित्तैरालोचनादिप्रकारैः, ते चामी-शिष्येणाचार्याय सम्यगालोचनादानम् १, आचार्यस्यापि शिष्यदत्ताया आलोचनाया अन्यस्याकथनता २, आपत्सु दृढधर्मता ३, ऐहिकादिफलानपेक्षोपधानकारिता ४, ग्रहणासेवनारूपद्विविधाशिक्षासेविता ५, निष्प्रतिकर्मशरीरता ६, तपसि परजनातापिता ७, अलोभता ८, परीषहादिजय: ९, आर्जवं १०, संयमव्रतविषये शुचिता ११, सम्यक्त्वशुद्धिः, १२, चेत:समाधिः १३, आचारोपगतता १४, विनयपरता १५, धृतिप्रधानता १६, संवेगपरता १७, निर्मायता १८, सुविधिकारिता १९, संवरकारिता २०, आत्मदोषोपसंहारिता २१, सर्वकामविरक्तत्वभावना २२, मूलगुणविषयप्रत्याख्यानकारिता २३, उत्तरगुणविषयप्रत्याख्यानकारिता २४, द्रव्यभावविषयो व्युत्सर्गः २५, अप्रमत्तता २६, क्षणे क्षणे सामाचार्यनुष्ठानम् २७, ध्यानसंवृतता २८, मारणान्तिकवेदनोदयेऽप्यक्षोभिता २९, सङ्गानां ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च ३०, प्रायश्चित्तकारिता ३१, आराधना मरणान्ता ३२ चेत्येतैरननुशीलितैः । ‘त्रयस्त्रिंशताऽऽशातनाभिः ' गुरुगोचराभिर्वन्दनाधिकारे व्याख्याताभिः, अथवा सूत्रे साक्षादेव त्रयस्त्रिंशदाशातना उक्ताः, तथाहि - अर्हदादिषु एकोनविंशतिः, व्याविद्धादिपदैराशातनाचतुर्दशकं च श्रुतविषयमिति त्रयस्त्रिंशत्, तत्र न सन्त्यर्हन्तो जानन्तो वा किमिति भुञ्जते भोगानित्यादि जल्पन्नर्हतामाशातनां कुरुते, तथा न सन्ति सिद्धा इत्यादि जल्पन् १. मरणान्ता आराधना च चे' - P. C. I आराहणा य मरणंते इति आवश्यकनिर्युक्तौ गा० १२७८ ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy