SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 'पगामसिज्जा'सूत्रं सविवरणम् -श्लो० ९८॥] [६०५ पञ्चविंशत्यध्ययनात्मकत्वात् पञ्चविंशतिविध आचारः, उद्घातिममनुद्घातिममारोपणेति त्रिधा प्रकल्पमीलनेऽष्टाविंशतिविधः । तत्र पञ्चविंशतिरध्ययनान्यमूनि - "सत्थपरिण्णा १ लोगविजओ २ सीओसणिज्ज ३ संमत्तं ४ ।आवंती लोगसारं ५ धुय ६ विमोहो ७ वहाणसुअं ८ महापरिण्णा ९ पिंडेसणा १० सिज्जा ११ ईरिआ १२ भासाजायं १३ वत्थेसणा १४ पाएसणा १५ उग्गहपडिमा १६ ठाणसत्तिक्कयं १७ निसीहियासत्तिक्कयं १८ उच्चारपासवणसत्तिक्कयं १९ सद्दसत्तिक्कयं २० रूवसत्तिक्कयं २१ परकिरिआसत्तिक्कयं २२ अन्नोन्नकिरिआसत्तिक्कयं २३ भावणा २४ विमुत्ती २५"[ ] इति। ‘एकोनस्त्रिंशता पापश्रुतप्रसङ्गैः' पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः - तदासेवनरूपाः, तानि चामूनि –अष्टौ निमित्ताङ्गानि, तत्र दिव्यं व्यन्तराट्टहासादिविषयम् १, उत्पातं रुधिरवृष्ट्यादिविषयम् २, आन्तरिक्षं ग्रहभेदादिविषयम् ३, भौमं भूमिविकारदर्शनादेवास्येदं भविष्यतीत्यादिविषयम् ४, अङ्गमङ्गचेष्टाविषयम् ५, स्वरं षड्जादिस्वरविषयम् ६, व्यञ्जनं -मषादि तद्विषयम् ७, लक्षणं-लाञ्छनं रेखादि तद्विषयम् ८ पुनर्दिव्याद्येकैकं त्रिविधम् सूत्रं वृत्तिर्वात्तिकं चेत्येवमष्टौ त्रिगुणाश्चतुर्विंशतिभेदाः, तथा गान्धर्वं नाट्यं वास्तुविद्या वैद्यकं धनुर्वेदश्चेत्येकोनत्रिंशत् , अङ्गविद्यायां तु निमित्ताङ्गाष्टकमङ्गं स्वप्नः स्वरो व्यञ्जनं भौमं लक्षणमुत्पातमान्तरिक्षमित्युक्तम् । त्रिंशता मोहनीयस्थानैः' चतुर्थकर्मबन्धनिबन्धनैः, तानि चामूनि -जलमवगाह्य त्रसानां विहिंसनम् १, हस्तादिना मुखं पिधाय हिंसनम् २, वर्धादिना शिरो वेष्टयित्वा मारणम् ३ मुद्गरादिना शिरसोऽभिघातेन मारणम् ४ भवोदधिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननम् ५, सामर्थ्य सत्यपि घोरपरिणामात्-लानस्यौषधादिभिरप्रतिचरणम् ६, तपस्विनो बलात्कारेण धर्माद् भ्रशनम् ७, सम्यग्दर्शनादिमोक्षमार्गस्य परेषां विपरिणामकरणेन स्वस्य परेषां चापकारकरणम् ८, जिनानां निन्दाकरणम् ९, आचार्यादिखिसनम् १०, आचार्यादीनां ज्ञानदानादिभिरुपकारिणामप्रतिचरणम् ११, पुनः पुनर्निमित्तकथनाद्यधिकरणोत्पादनम् १२, तीर्थभेदनम् १३, वशीकरणादिकरणम् १४, प्रत्याख्यातभोगप्रार्थनम् १५, अभीक्ष्णमबहुश्रुतत्वेऽप्यात्मनो बुहुश्रुत(त्व)प्रकाशनम् , तथाऽतपस्विनोऽपि तपस्विताप्रकाशनम् १६, बहुजनस्यान्तधूमेनाग्निना हिंसनम् १७ स्वंय कृतपापस्यान्यकृतत्वाविर्भावनम् १८, निजोपधिभाण्डं मायया निद्भुते १९, अशुभपरिणामात् सत्यभाषकस्यापि मृषाभाषीति सभायां प्रकाशनम् २०, अक्षीणकलहत्वम् २१, विश्रम्भोत्पादनेन परधनापहरणम् २२, D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy