________________
६०४]
[धर्मसंग्रह:-तृतीयोऽधिकारः 'एकविंशत्या शबलैः' चारित्रस्य शबलता -कल्मषता तन्निमित्तानि क्रियाविशेषाः शबलास्तैः, ते चामी-करकर्मकरणम् १, अतिक्रमव्यतिक्रमातिचारैर्दिव्यादित्रिविधमैथुनसेवम् २, दिवागृहीतं दिवाभुक्तमित्यादिचतुर्भङ्ग्यमतिक्रमादिना रात्रौ भोजनम् , सालम्बने पुनर्यतना, सन्निध्यादिष्वप्रतिसेवा ३, एवमाधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामित्या ७ ऽभ्याहृता ८ ऽऽच्छेद्य ९ प्रत्याख्यातद्रव्यभोजनम् १० षण्मासान्तर्गणाद् गणान्तरसंक्रमोऽन्यत्र ज्ञानाद्यर्थात् ११, मासान्तस्त्रिर्दकलेपकरणम् , "जङ्घद्धा संघट्टो, नाभी लेवो परेण लेवुवरि" [ ] १२, मासान्तस्त्रिातृस्थानकरणम् , मातृस्थानं चानाचरणीयस्याऽऽचार्यत्रपावशात् प्रच्छादनम् १३, आकुट्ट्या सकृद्विस्त्रिर्वा हरिताङ्कुरादित्रोटनादिप्राणातिपात १४ मृषावादा १५ऽदत्तादानासेवनम् १६ आकुट्ट्याऽनन्तरितायां सस्निग्धायां साण्डायां सप्राणायां सबीजायां च भूमौ सचित्तशिलाघुणक्षतकाष्ठादौ च स्थानम् १७, आकुट्ट्या मूलकन्दपुष्पबीजहरितभोजनम् १८, वर्षान्तर्दशदकलेपकरणम् १९, वर्षान्तर्दशमातृस्थानकरणम् २०, सचित्तोदकार्द्रगलद्विन्दुहस्तमात्रकस्य दातुः पार्वाद् भक्ताद्यादाय भोजनम् २१ । ___ 'द्वाविंशत्या परीषहै:' वक्ष्यमाणस्वरूपैः, 'त्रयोविंशत्या सूत्रकृताध्ययनैः' द्वितीयाङ्गाध्ययनैः तानि च षोडश प्रथमश्रुतस्कन्धे द्वितीयश्रुतस्कन्धे तु -पुण्डरीकं १ क्रियास्थानम् २ आहारपरिज्ञा ३ प्रत्याख्यानक्रिया ४ ऽनगारम् ५ आर्द्रकीयं ६ नालंदीयं ७ चेति सप्त । 'चतुर्विशत्या देवैः' ऋषभादिजिनैः, अथवा दश भवनपतयोऽष्टधा व्यन्तराः पञ्चधा ज्योतिष्का एकविधा वैमानिकाः सर्वमीलने चतुर्विंशतिः । ‘पञ्चविंशत्या भावनाभिः' महाव्रतसंरक्षणाय भाव्यन्त इति भावनाः, ताश्च व्रताधिकारे वक्ष्यन्ते, ताभिः । 'षड्विंशत्या दशाकल्पव्यवहाराणामुद्देशनकालैः' उद्देशसमुद्देशानुज्ञानार्थं षड्वन्दनकदानकायोत्सर्गत्रयमयसमयप्रसिद्धक्रियाविशेषैः, ते चैवं दशाश्रुतस्कन्धस्य दशस्वध्ययनेषु , दशसु च कल्पस्य, षट्सु व्यवहारस्योद्देशकेष्विति, तैरविधिना गृहीतैः ।
'सप्तविंशत्याऽनगारगुणैः, साधुगुणैः, ते चामी -व्रतषट्कम् ६ पञ्चेन्द्रियजय: ११ भावशुद्धिः १२ प्रत्युपेक्षादिकरणशुद्धिः १३ क्षमा १४ वैराग्यम् १५ अकुशलमनोवाक्कायनिरोधः १८ षट्कायरक्षा २४ संयमयोगयुक्तता २५ शीतादिवेदनासहनम् २६ मारणान्तिकोपसर्गादिसहनम् २७। 'अष्टाविंशत्या आचारप्रकल्पैः' आचार: -आचाराङ्गम् , प्रकल्पो निशीथाध्ययनं तस्यैव पञ्चमचूला, आचारेण सहितः प्रकल्प आचारप्रकल्पस्तैः
१. 'बीज' मु० C. नास्ति ॥ २. P । 'स्तस्मिन्-मु० .
D:\new/d-3.pm53rd proof